पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/455

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति



४१३
त्रिप्रश्नवासना

 इति । छायायाः क्षेत्रात्मकत्वात् सावनाभिरेव साध्या । अयमर्थस्त्रिप्रश्ने व्याख्यात एव । एतत्सावनघटिकाप्रसङ्गाल्लग्नार्थमपि सावना अङ्गीकृता इत्यर्थः ॥ २७ ।।

वा० वा०- तात्कालिकार्ककरणकारणमाह-लग्नार्थमिति ॥ २७।।
इदानी देशविशेषेण राशीन् सदोदिताननुदिताश्चाह—
त्र्यंशयुङ्नवरसाः ६* पलांशका यत्र तत्र विषये कदाचन ।
दृश्यते न मकरो न कामुक किंच कर्किमिथुनौ सदोदितौ। २८ ।
यत्र साङ्घ्रगजवाजिसंमिता *6 स्तत्र वृश्चिकचतुष्टयं न च ।
दृश्यतेऽथ वृषभाच्चतुष्टयं सर्वेदा समुदितं च लक्ष्यते ।। २९ ।।
यत्र तेऽथ नवतिः पलांशकास्तत्र काञ्चनगिरौ कदाचन ।
दृश्यते न भदल तुलादिक सर्वदा समुदितं क्रियादिकम्। ३० ।

 वा० भा० -अयमर्थस्त्रिप्रश्ने (लम्बाधिका क्रान्तिरुदक् च यावत् तावहिन सन्ततमेव तत्रेत्यादिना ) सम्यक् कथित एव । यत्र वृश्चिकान्तक्रान्तितुल्यो लम्बस्तत्रैव पलांशाः ६९ । २० ॥ तत्र धनुर्मकरौ क्षितिजादधः स्थितावेव भ्रमतः । ककिमिथुनौ तूपर्येव । यत्र तुलान्तक्रान्तितुल्यो लम्बस्तत्राष्टससतिः संसदशकलाधिका ७८ ।। १७ पलांशास्तत्र वृश्चिकादिचतुष्टयं क्षितिजादधो वृषभादिकमुपरि । एवं मेरौ नवतिः ९० पलांशास्तत्र तुलादिषट्कमधो मेषादिकमुपरीति सर्वं भगोले भ्रामिते सति दृश्यते ॥ २८-३०॥

 वा० वा०-यत्र कर्कमिथुनस्थिताकों दृश्यते सततं मकरकार्मुकस्थार्क: कदापि . न दृश्यते तं देशमाह--त्र्यंशयुगिति । -

एवं राशिचतुष्टयस्थितार्कः सततं दृश्यते तं देशमाह--यत्रेति ।
मेरौ तु राशिषट्कस्थितार्कः सततं दृश्यत इत्याह--यत्रेति ॥ २८-३० ।।
इदानी लल्लोक्तस्य दृश्यादृश्यत्वलक्षणस्य दूषणमाह
राशेर्यस्य निरक्षञ्जोदयसमाः स्वीयाश्चरार्धासवो
दृश्यस्तत्र सदा स राशिरिति यन्निर्युत्ति लल्लोदितम्' ।
यद्येवं रसषटू ६६ पलांशविषये सर्वेऽप्यमी सर्वदा
दृश्याः स्युर्युगपच्चरोदयघटीसाम्यादसत् तत् ततः ॥ ३१ ।।

 वा० भा०-एकद्वित्रिराशीनां चराण्यधोऽधः शोधितानि तानि चरखण्डानि राशीनां पृथक्पृथक् स्वचरार्धानि चोच्यन्ते ॥ निरक्षोदयासवो गगनभूधरषट्कचन्द्रा १६७० इत्यादयो यत्र


१. अत्र लल्ल:-
यस्य स्वचरार्धसमा निरक्षविषयोदयासवो राशेः ॥
दृश्यः स सदा तस्मिन् दृश्यादृश्योऽन्यथा मवति ।
शि० धी० गो० मध्य १९ श्लो० ॥