पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/454

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४१२
सिद्धान्तशिरोमणौ गोलाध्याये


वा० वा०-लग्नलक्षणमाह-यत्रति ॥ २६।
अथ लग्नार्थमर्कस्य तात्कालिकीकरणवासनामाह

लग्नार्थमिष्टघटिका यदि सावनास्ता
 स्तात्कालिकार्ककरणेन भवेयुराच्र्यः ।
आक्षोंदया हि सदृशीभ्य इहापनेयास्ता
 त्कालकत्वमथ य क्रियते यदाक्ष्र्यः। २७ ।

 वा० भा०-ननु लग्नकरणार्थ या इष्टघटिकास्ताः सावना उत नाक्षत्राः । यदि सावनास्तहि नाक्षत्रा उदयाः कथं विसदृशास्ताभ्यो विशोध्याः । अतस्ताभिनक्षित्राभिर्भवितव्यम् ॥ तथा भोग्यकालसाधनार्थमर्कस्तात्कालिकः कि कृतः । यत उदयावघेरिष्टघटिकास्तथार्कोदयानन्तरमेव राशेर्भोग्यांशाः क्रमेणोद्गच्छन्ति । अत औदयिकाकस्य भोग्यं ग्रहीतुं युज्यते न तात्कालिकस्य ।

 तथा प्रतीत्यर्थमुदाहरणम् । यत्र किल पज्ञाजूला ५ विषुवती तत्र मेषादिगेऽकें स्फुटमहोरात्रं चतुश्चत्वारिशदसुभिरधिकाः षष्टिघटिका ६० ॥ ७ ॥ २ । अथ उदयानन्तरमहोरात्रसमे काले ६० ॥ ७ ॥ २ यावत् तात्कालिकाकल्लग्नं साध्यते तावदकधिक स्याक्ष समम् । यावदौदयिकाकत् िक्रियते तावत् सममेव ॥ अतोऽन्वयव्यतिरेकाभ्यां प्रतीतेर्युक्ति तश्चार्कतात्कालिकीकरणमयुक्तमिव प्रतिभाति । सत्यम् । अत एवोक्त लग्नार्थमिष्टघटिका इत्यादि ।
 अत्रेष्टघटिकाः सावनास्तावदाचार्येरङ्गीकृतास्तासां नाक्षत्रत्वं कर्तव्यम् ॥ तच्चैवम् ॥ यथा प्रागुक्तस्वाहोरात्रसम्बन्धिन्यो या गतिकलास्ताः स्वोदयासुभिः संगुण्य राशिकलाभिर्विभज्य फलासुभिरधिकाः सावनतुल्या नाक्षत्राः षष्टिघटिका अहोरात्रवृत्ते नाक्षत्राः स्युः । एवमिष्टघटीसम्बन्धिन्यो या गतिकलास्ताः स्वोदयासुभिः संगुण्य राशिकलाभिविभज्य फलासवस्तास्विष्टघटिकासु सावनासु प्रक्षेप्याः । एवं नाक्षत्राः स्युः । तत औदयिकार्कस्य भोग्यासवः शोध्याः । एवं सत्याच्चायण लाघवार्थमिष्टघटीसम्बन्धिन्यी गतिकला अकें प्रक्षिसास्ततो ये भोग्यासवस्त औदयिकाकभोग्यासुभ्यो न्यूना जातास्ते यावदिष्टघटिकाभ्यः शोध्यन्ते तावत् ता इटघटीसम्बन्धिगतिकलासुभिरधिकाः कृताः स्युः ॥ एवं तासां सावनानां नाक्षत्रीकरणार्थमर्कस्य तात्कालिकीकरणमुपपन्नम् ॥

 ननु यद्योवं तहि कि सावना अङ्गीकृत्य नाक्षत्रीकरणप्रयासेन । किमु नाक्षत्रा एव नाङ्गीकृताः । सत्यम् । तदप्युच्यते । अत्र त्रिप्रश्ने छायार्थं ग्रहाणां स्वस्वसावनमेवोदितं ग्राह्यम् ॥ तद्यथा ॥ इष्टकाले स्वाहोरात्रवृत्ते यत्र ग्रहः स्थितः । यत्र च क्षितिजसंगस्तयोरन्तरे यावन्तो घटीविभागास्तावत्यः सावना नाड्यस्ता हि क्षेत्रविभागात्मिकाः ।

 अथ चोदयकाले यत्र स्थितो ग्रह आसीत् तत्कुजमध्ये यावत्यस्तावत्यो नाक्षत्रास्तास्तु कालविभागात्मिकाः । यथा पौर्णमास्यां छायाकरणे चन्द्रस्यासकृद्विधिनोदिता नाडिकास्ताश्छायार्थ न युज्यन्ते । यत्तु कैश्चिच्छायार्थमप्यसकृद्विधिनानीतास्तदसत् । अत एव वक्ष्यति -

चन्द्रप्रभार्थमसकृद्विधिनोदितं यत् कश्चित् कृतं खलु न सत् तदसावनत्वात् ॥
जानन्ति ये न निपुणं गणितं सगोलं तेषां तु तन्त्रकरणव्यसनं वृथैव ॥