पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/453

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४११
त्रिप्रश्नवासना

 तद्रहितैरिति--यो हि प्रदेशोऽपममण्डलस्येत्यादि निरक्षोदयाः स्वदेशे स्यु
रित्यन्तमेवं बोधनीयमित्याह-क्षितिजेऽजादि कृत्वेति ।
 खगोलान्तर्भगोल बद्ध्वा खगोलक्षितिजे भगोलस्थमेषादि कृत्वोदयोपपत्तिर्वा
तैरपि बुध्यते ॥ १९-२३।
 अथास्तमयानाह--
 योऽभ्युदेति समयेन येन तत्सप्तमोऽस्तमुपयाति तेन च ।
 राशिरूर्ध्वमपमण्डलं कुजादर्धमेव सततं यतः स्थितम् ।। २४ ।।
 वा० भा०--यो राशियेंन कालेनोदेति तेन तत्ससमोऽस्त याति। ये मेषादीनामुदयास्ते
तुलादीनामस्तमयाः ॥ ये तुलादीनामुदयास्ते मेषादीनामस्तमया इत्यर्थः । यतोऽपमवृत्तं क्षिति
जादुपर्यर्धमेव भवति । अर्धमधश्च । अतो राश्योरुदयमस्तमयं च गच्छतोस्तुल्यकालतो
पपद्यते । २४ ।
 वा० वा०-राश्यसवस्त्रिविधा: । मध्यासव उदयासवोऽस्तासवश्चेति ।
 तत्र निरक्षदेशरेखादेशयोर्याम्योत्तरवृत्तैक्यादे निरक्षेोदयास्त एव साक्षे निरक्षे
मध्यलग्नासवो भवन्ति । स्वोदयास्तु साधिता एव निरक्षसाक्षक्षितिजभिन्नत्वादधुना
राशीनामस्तासुरे ज्ञानार्थमाह--योऽभ्युदेतीति । यन्मेषस्योदयमानं तत्तुलाया अस्तासु
मानमित्यादि ज्ञेयम् । तत्र हेतुमाह--राशिरिति ॥ २४ ।।
 इदानी विशेषमाह--
 यत्र लम्बजलवा जिनोनकास्तत्र नोदयचराद्यमुक्तवत् ।
 नान्यसंस्थिततयान्यथोदितं येन नैष विषयो नृगोचरः ।। २५ ।।
 वा० भा०--यस्मिन् देशे षट्षष्टि ६६ भागाधिकः पलस्तत्र केचन राशयः सदोदयाः
केचन सदास्तमिताः केचन प्रान्तादुद्गच्छन्ति । अतस्तत्र यथा कथितास्तथोदया न भवन्ति ॥
यावत् सदोदितो रविस्तावदहोरात्रवृत्तं क्षितिजं न स्पृशति ॥ अहोरात्रवृत्ते क्षितिजोन्मण्डलयोरन्तरं
हि चरम् । अतस्तत्र कुञ्ज्याग्राचरज्यादिकमसत् । शेषं स्पष्टम् ॥ २५ ॥
 वा० वा० --उत्त यच्चरोदयादि तत् कियदवधिनिर्वहतीत्याह-यत्रेति ।
मनुष्याधिकारत्वाच्छास्त्रस्य मनुष्यदेशस्थमेवेदं प्रतिपादितं नान्यदेशस्थमित्याह--
नान्यसंस्थिततयेति ॥ २५ ॥
 इदानी लग्नशब्दव्युत्पत्योदयास्तमध्यलग्नस्थानान्याह--
 यत्र लग्नमपमण्डलं कुजे तद्गृहाद्यमिह लग्नमुच्यते ।
 प्राचि पश्रिमकुजेऽस्तलग्नक मध्यप्लग्नमिति दक्षिणोत्तरे। २६ ।
 वा० भा०-स्पष्टार्थम् ॥ २६ ।


१. राश्यसर्वस्त्रि इति खपु० ।

२. मत्प्रासु इति खपु० ।