४१०
सिद्धान्तशिरोमणौ गोलाध्याये
कक्र्यादयः सौम्यनता हि येऽच ते यान्ति याम्याक्षवशादृजुत्वम् ।
कालेन तस्माद्बहुनोदयन्ते तदन्तरे स्वं चरखण्डमेव ॥१८॥
वा० भा० विषुवदहोरात्रवृत्तानि लङ्कायां समपश्चिमगानि। राशिवलयं तु मकरादौ
परमक्रान्त्या विषुवन्मण्डलाद्दक्षिणतो मिथुनान्त उत्तरतो लग्नमतस्तिरश्चीनम् । तत्रापि मेषः
स्वक्रान्त्या महत्या तिरश्चीन उदेति । अतोऽल्पकालोदयः । वृषभस्तदल्पयातस्तस्मात्
किञ्चिदधिककालः । मिथुनस्तदल्पयातस्तदधिककालः ॥ एवं निरक्षेऽपि न समा उदयाः । अथ
ये मकरादयो याम्ये नतास्ते याम्याक्षवशादतिनता उद्गच्छन्ति स्वदेशेऽतोऽल्पकालोदयाः । ये तु
कक्र्यादयः स्वस्वक्रान्त्या सौम्ये नतास्ते याम्याक्षवशादृजुत्वं गता उद्यन्ति । अतश्चिरकालोदयाः ।
लङ्कास्वदेशोदययोरन्तराले स्वं चरखण्डमेव भवति। यतस्तत्क्षितिजयोरन्तराले । १६-१८।।
वा० वा०-–भवलयस्य किलार्कलवाः समा इति प्रश्नस्योत्तरमाह--'यो हि
प्रदेशोऽपममण्डलस्येति'।
न विषयेष्वखिलेष्वपि ते समा इति प्रश्नस्योत्तरमाह--'य उद्गमे याम्यनता
इति । कक्यदय इति । १६-१८ ॥
अथ चरखण्डैरूनाधिकत्वं गोलभ्रमणोपरि यथा प्रतीयते तथाह--
भचक्रपादास्तिथिनाडिकाभिः पृथक् समुद्यन्ति निरक्षदेशे ।
चक्रार्धमाद्यं च तथा द्वितीयं सर्वत्र पूर्णाग्निमिताभिरेव ।। १९ ।।
मेषादेर्मिथुनान्तो नाडीभिस्तिथिमिताभिरुद्वृत्ते ।
लगति कुजे तदधःस्थे प्रथमं ताभिश्चरोनाभिः ॥ २० ।।
कन्यान्ताद्धनुषोऽन्तस्तिथिमितनाडीभिरुद्वलये ।
लगति कुजे चोध्र्वस्थे पश्चात् ताभिश्रराढयाभिः । २१।
तद्रहितत्रिंशद्भिः कन्यान्तो वा भाषान्तो वा ।
चरखण्डैरूनाढयास्तेन निरक्षोदयाः स्वदेशे स्युः ॥ २२ ।
क्षितिजेऽजादिं कृत्वा गोलं भ्रमयन् प्रदर्शयेत् सर्वम् ।
उत्तमनुत्ततं चान्यच्छिष्याणां बोधजनतार्थम् ।। २३ ।।
वा० भा०-उदयवासना स्फुटगत्यध्याये कथितैव । इह तु मेषादि क्षितिजे कृत्वा गोल
भ्रमयन् क्रमेण यदुक्तं वक्ष्यमाणं च सर्वं दर्शयेत् । तत्र सर्वं दृश्यत इत्यर्थं ।। १९-२३ ।।
वा० वा०-निरक्षे मेषादिराशित्रयस्य योगः पञ्चदशघटीतुल्यः साक्षे मेषादि
रसभयोगस्त्रिशद्घटीतुल्य एवेत्याह–भचक्रपादा इति ।
कथं चरखण्डोनयुता निरक्षोदयाः स्वोदया भवन्तीत्याह-मेषादेरिति ।
कन्यान्तादिति । सायनमेषादिः कन्यान्तश्च क्रान्त्यभावादुन्मण्डलक्षितिजसम्पाते लग-
तीति मेषादेमिथुनान्तः कन्यान्ताद्धनुषोऽन्त इत्युक्तम् ।
|