पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/437

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
 

  इदानीमुन्मण्डलमाह‌-

पूर्वापरक्षितिजसङ्गमयोर्विलग्नं याम्ये ध्रुवे पललवैः क्षितिजादधःस्थे ।
सौम्ये कुजादुपरि चाक्षलवैधुवे तदुन्मण्डलं दिननिशोः क्षयवृद्धिकारि ।।४।।

  वा० भा०-समवृत्तक्षितिजयोर्यां पूर्वापरौ संपातौ तयोद्ध्वचिह्ययोश्च सत यक्ष बध्यते तदुन्मण्डलसंज्ञम् । दिनरात्र्योर्वृद्धिक्षयौ तद्वशेन भवतः ।। ४ ।।

  इदानीं विषुवन्मण्डलमाह -

पूर्वापरस्वस्तिकयोविंलग्नं खस्वस्तिकाद्दक्षिणतोऽक्षभागैः ।
अधश्च तैरुत्तरतोऽङ्कितं च षष्टयात्र नाडीवलयं विदध्यात् ॥५॥

  वा० भा०-तयोरेव पूर्वापरसंपातयोविलग्नं तथा याम्योत्तरवृत्ते खस्वस्तिकाद्दक्षिण तोऽधःस्वस्तिकादुत्तरतोऽक्षांशान्तरे यद्वृत्तं निबध्यते तद्विषुवद्वृत्तम् ।। ५ ।।

इदानी दृङमण्डलमाह

ऊर्ध्वाधरस्वस्तिककीलयुग्मे श्रोतं श्लथं दृग्वलयं तदन्तः ।
कृत्वा परिभ्राम्य च तत्र तत्र नेयं ग्रहो गच्छति यत्र यत्र ॥६॥

  वा० भा०-खस्वस्तिके चाध-स्वस्तिके चान्त:कोलकी कृत्वा तयोः प्रोत श्लथ दृग्वलय कार्यम् । तत्तु पूर्ववृत्तेभ्यः किचिन्न्यूनं कार्यम् । यथा खगोलान्तभ्रमति ॥ यद्येक एव ग्रहगोलस्त दैकमेव दृङ्मण्डलम् । यो यो ग्रहो यत्र यत्र वर्तते तस्य तस्योपरीदमेव परिभ्राम्य विन्यस्य दृग्ज्याशङ्कवादिको दर्शनीयम् । अथवा पृथक् पृथगछौ दृङमण्डलानि रचयेत् । तत्राष्टमं बित्रिभ-• लग्नस्य । तच्च दृक्क्षेपमण्डलम् ॥ ६ ॥

  अथ विशेषमाह- .

ज्ञेयं तदेवाखिलखेचराणां पृथक् पृथग्वा रचयेत् तथाष्टौ ।
दृङ्मण्डलं वित्रिभलग्नकस्य दृक्क्षेपवृत्ताख्यमिदं वदन्ति ॥७॥

  वा० भा०-व्याख्यातमेवेदम् । ७ ।।

  वा० वा०-खगोलरचनां वृतपचकेनाह पूर्वापरमित्यार्दिना ॥ ३-७ ।

  इदानीमेवं खगोलमुक्त्वा दृग्गोलमाह –

बद्ध्वा खगोले नलिकाद्वयं च ध्रुवद्वये तनलिकास्थमेव ।
बहिः खगोलाद्विदधीत धीमान् दृग्गोलमेवं खलु वक्ष्यमाणम् ॥८॥
भूगोलवृत्तैः सहितः खगोलोकः दृग्गॊलसंज्ञोऽपममण्डलाद्यः' । ।
द्विगोलजातं खलु दृश्यतेऽत्र क्षेत्र' हि दृग्गोलमतो वदन्ति ॥९॥

  वा० भा०-तस्मिन् खगोले ध्रुवचिह्नयोर्नलिकाद्वयं बद्धवा तनलिकाधारमेव खगोलाद्ब हिरङ्गुलत्रयान्तरे दृग्गोलं रचयेत् । कथितैः खगोलवृत्तैर्वक्ष्यमाणैर्भगोलवृत्तैः क्रान्तिविमण्डलाद्यैय


१. दृग्गोलसंज्ञोऽपविमण्डलाद्यैरिति पाठान्तरम् ।