पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/438

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३९६
सिद्धान्तशिरोमणी गोलाध्याये

३९६ सिद्धान्तशिरोमणी गोलाध्याये  निबध्यते स दृग्गोलः । कथमस्य दृग्गोलसंज्ञेति तदर्थमाह । द्विगोलजातमित्यादि । यतोऽग्राकुञ्ज्या समशङ्क्वाद्यक्षक्षेत्राणि द्विगोलजातानि । भगोलवृत्तैः खगोलवृत्तमिलितैस्तान्युत्पद्यन्ते । भिन्न गोलबन्धे सम्यङ्नोपलक्ष्यन्त इति दृग्गोलः कृतः ॥ ८-९ ।।

 

इति खगोलदृग्गोलबन्धौ ।

 वा० वा० -द्वाभ्यां दृग्गोलबन्धमाह-बद्ध्वेति । भगोलवृत्तैरिति ॥ ८-९ ।

 इदानी भगोलबन्धमाह—

याम्योत्तरक्षितिजवन् सुदृढं विदध्यादाधारवृत्तयुगलं धुवयटिबद्धम्। ।
षष्टयङ्कमत्र सममण्डलवत्- तृतीयं नाडयाह्वयं च विषुवद्वलयं तदेव ॥१०॥

  वा० भा०-यथा खगोले क्षितिज याम्योतरं च तदाकारमपरमाधारवृतद्वयं शुयटिस्थ कृत्वा तदुपर्यन्यत् तृतीयं सममण्डलकारं घटीषष्टया चाङ्कितं कार्यम् । तन्नाडीवृत्तं विषुवद्वृ तसंज्ञं च ।। १० ॥

 इदानी क्रान्तिवृत्तमाह -

क्रन्तिवृत्तं विधेयं गृहाङ्गं भ्रमत्यत्र भानुश्च भार्धे कुभा भानुतः ।
क्रान्तिपातः प्रतीपं तया प्रस्फुटाः क्षेपपाताश्च तत्स्थानकान्यङ्कयेत् ॥११॥

  वा० भा०-अथान्यत् तत्प्रमाणमेव वृत्त कृत्वा तत्र मेषादि प्रकल्प्य द्वादशराशयोs ङ्कयाः । तत् क्रान्तिवृत्तसंज्ञम् । तस्मिन् वृत्ते रविभ्रमति । तथा रवेर्भाधान्तरे भूभा च ॥ तथा तत्र क्रान्तिपातो मेषादेविलोम भ्रमति । यथा ग्रहाणां विक्षेपपाता; प्रस्फुटा विलोम भ्रमन्ति। अतः क्रान्तिपातादीनां स्थानानि तत्राङ्कयानि ।। ११ ॥

 इदानी क्रान्तिवृत्तस्य निवेशनमाह—

क्रान्तिपाते च पाताड्रषट्कान्तरे नाडिकावृत्तलग्नं विदध्यादिदग् ।
पाततः प्राकू त्रिभे सिद्धभागैरुदग्दक्षिणे तैश्च भागैर्विभागेऽपरे ॥१२॥

  वा० भा०-क्रान्तिपातचिह्मात्र षड्भेऽन्तरेऽन्यच्चिह्मदें कार्यम् । ते चिहूं नाडीवृत्तेन संसक्त कृत्वा पातचिहुादग्रतस्त्रिभेऽन्तरे नाडीवृत्ताङ्गचतुवंशत्योत्तरती यथा भवत्यपरविभागे त्रिभेऽन्तरे दक्षिणतश्च तैर्भार्गेर्यथा भवति तथा बध्नीयात् ।। १२ ।।

 इदानी विमण्डलमाह -

नाडिकामण्डले क्रान्तिवृतं यथा क्रान्तिवृत्ते तथा क्षेपवृतं न्यसेत्।
क्षेपवृत्तं तु राश्यङ्कितं तत्र च क्षेपपातेषु चिह्नानि कृत्वोक्तवत् ॥१३॥
क्रान्तिवृत्तस्य विक्षेपवृत्तस्य च क्षेपपाते सषङ्मे च कृत्वा युतिम् ।
क्षेपपाताग्रतः पृष्ठतश्च त्रिभे क्षेपभागैः स्फुटैः सौम्ययाम्ये न्यसेत् ॥१४॥
शीघकर्णेन भक्ताखिभज्यागुणाः स्यु: परक्षेपभागा ग्रहाणा स्फुटाः ।
क्षेपवृत्तानि षण्णां विदध्यात् पृथक् स्वस्ववृत्ते भ्रमन्तीन्दुपूर्वा ग्रहाः ॥१५॥