पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/436

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३९४
सिद्धान्तशिरोमणौ गोलाध्याये

 वा० वा०-छेद्यकार्थ केषां सुगमः केषां कठिन इत्याह--ये दर्भगर्भाग्रधिय इति ॥ ४४ ॥

 श्रीमत्कौङ्कणवासिकेशवसुतप्राप्तावबोधाद्बुधाद्
 भट्टाचार्यसुताद्दिवाकर इति ख्याताज्जनि प्राप्तवान् ।
 यः कृष्णस्तनयेन तस्य रचिते सद्वासनावातिके
 सत्सिद्धान्तशिरोमणेरियमगात्स्पष्टाश्रिता वासना ॥ १ ॥

 

॥ अथ गोलबन्धाधिकारः ।।

 इदानी गोलबन्धाधिकारमाह—

सुसरलवंशशलाकावलयैः श्लक्ष्णैः सचक्रभागाङ्कैः ।
रचयेद्रोलं गोले शिल्पे चानल्पनैपुणी गणकः ॥१॥

 वा० भा०-स्पष्टम् ।। १ ।।

 वा० वा०-अथ गोलबन्धो व्याख्यायते । तत्र गोलरचनामाह सुसरलवंशश

लाकावलयैरिति वृत्तेन । अत्र वंशशब्दो *धात्वाद्युपलक्षकः ॥ १ ॥

    अथ गोलबन्धमाह

कुत्वादौ धुवयष्टिमिटतरुजामृज्वीं सुवृत्तां ततो
यष्टीमध्यगतां विधाय शिथिलां पृथ्वीमपृथ्वीं बहिः ।
बध्नीयाच्छशिसौम्यशुक्रतपनारेज्याकिंभानां दृढान्
गोलांस्तत्परितः श्लथौ च नलिकासंस्थौ खदृग्गोलकौ ॥२॥

 वा० भा०-आदी सारदारुमयीं यष्टि कृत्वा तदर्घस्थाने तत्र प्रोतां पृथ्वीं सूक्ष्मां शिथिलां च विधाय तस्या बहिश्चन्द्रादीनां गोलान् यटघा सह दृढान् बध्नीयात्। तेषां बहिर्नलिकासंस्थी खदृग्गोलाविति साधारण्येनोक्तम्। २ ।।

 वा० वा० -कृत्वादौ ध्रुवयष्टिमिति वृत्ते संक्षिप्य सर्वोऽपि गोलबन्ध उत्तः । इष्टतरुजामित्यत्र तरुशब्दोप्युपलक्षणार्थः ॥ २ ॥

 इदानी सविशेषमाह -

 पूर्वापरं विरचयेत् सममण्डलाख्यं याम्योतरं च विदिशोर्वलयद्वयं च ।
 ऊर्ध्वाध एवमिह वृत्तचतुष्कमेतदावेष्टय तिर्यगपरं क्षितिज तदर्धे ॥३॥

 वा० भा० - एक पूर्वापरमन्यद्याम्योतरं तथा कोणदृतद्वयमेव वृत्तचतुष्टयमूर्ध्वाधोरुप

मावेष्ट्य तदर्धे वृत्तं क्षितिजाख्यं निवेशयेत् । अत्र याम्योत्तरवृत्त उत्तरक्षितिजावुपरि पलांशान्तर

एकं ध्रुवचिह्नं कार्यम् । दक्षिणक्षितिजादधोऽन्यत् ।। ३ ।।


१. धावाद्युयटलक, इ० खपु० ।