सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/435

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३९३
छेद्यकाधिकारः

 इदानों गतिफलाभावस्थानमाह

  कक्षामध्यगतिर्यग्रेखाप्रतिवृत्तसंपाते ।
  मध्यैव गतिः स्पष्टा परं फलं तत्र खेटस्य ॥३९॥

 वा० भा०-कक्षावृतमध्ये या तिर्यग्रेखा तस्याः प्रतिवृत्तस्य च यः संपातस्तत्र मध्येव गतिः स्पष्टा । गतिफलाभावात् । किञ्च तत्र ग्रहस्य परमं फलं स्यात् ॥ यत्र ग्रहस्य परमं फलं तत्रैव गतिफलाभावेन भवितव्यम् । यतोऽद्यतनश्वस्तनग्रहयोरन्तरं गतिः । फलयोरन्तरं गति फलम् । ग्रहस्य गतेर्वा फलाभावस्थानमेव धनर्णसंधिः । यत् पुनर्लल्लोत्तम्  मध्येव गतिः स्पष्टा वृत्तद्वययोगगे द्युचरे । इति । तदसत्। नहि वृत्तद्वययोगे ग्रहस्य परम फलम् ॥ ३९ ॥ इदानीं ग्रहस्य वक्रत्वं छेद्यके यथा शीघ्र दृश्यते तदर्थमाह

  वंशोद्भवाभिः प्रतिमण्डलाद्य' कृत्वा शलाकाभिरिदं यथोक्तम् ।
  प्रचाल्य तुझं खचरं च गत्या वक्रादि सर्व खलु दर्शयेद्द्राक॥४०॥

 वा० भा०-वंशशलाकाभिश्छेद्यक कृत्वा तत्राद्यतनस्फुटग्रहस्थान चिह्नयित्वा द्वितीयदिन उच्चं ग्रहं चोच्चवशान्मेषादि च प्र' ल्प्यान्यत् स्फुटग्रहस्थानं चिन्ह्यम् ॥ तत् पूर्वचिह्नाद्यदि पृछगतं तदा वक्रा गतिज्ञेया ॥ ४० ॥

 इदानों केन्द्रसंज्ञां स्फुटकक्षां चाह

  वृत्तस्य मध्यं क्रैिल केन्द्रुमुक्तं केन्द्रं ग्रहोच्चान्तूरमुच्युतेऽतः ।
  यतोऽन्तरे तावति तुह्रदेशात्रीचोच्चवृत्स्य सदैव केन्द्रम् ॥४१। ।
  व्ग्रहस्य कक्षा चलकर्णनिध्नी स्फुटा भवेद्वयासदलेन भक्ता ।
  व्तद्वयासखण्डान्तरितः कुमध्यात्स भ्राम्यते हि प्रवहानिलेन ।॥४२॥

   वा० भा०-श्लोकद्वयमपि स्पष्टम् ॥ ४१-४२ ॥

   इदानी भुजान्तरकर्मोपपत्तिमाह-

  मध्यमाकॉदयात् प्राक् स्फुटाकर्षोदयः स्यादृणे तत्फले स्वे यतोऽनन्तरम् ।
  व्तेन भास्वत्फलोत्थासुजातं क्षयः स्वं फलं युक्तियुक्ततं निरुक्त' ग्रहे ।।४३।।

   वा० भा०-स्पष्ट स्फुटगतौ व्याख्यातं च ॥ ४३ ॥

   इवानों छेद्यकोपसंहारेण गणकप्रज्ञां वर्णयन्नाह -

  ये दर्भगर्भाग्रधियोऽत्र तेषां स्याच्छेद्यकार्थः परमाणुरूपः ।
  येऽन्ये जडाः कुण्ठधियश्च तेषां स्यादिन्द्रवज्राहतपक्षतुल्यः ॥४४॥

   व० भा०-इन्द्रवज्त्राहतपक्षः पर्वतस्तत्तुल्यश्छेद्यकार्थो जडानाम् । इन्द्रवज्राश्छन्दश्च सूचितम् । शेषं स्पष्टम् ॥ ४४ ।   इति श्रीभास्करीये गोलभाष्ये मिताक्षरे स्फुटगतिबासनायां छेद्यकाधिकारः ।

       अत्र ग्रन्थसख्या २४० ।।

सिम्-५०