इदानीं मन्दकर्मणि कर्णः कि न कृत इत्याशङ्कयोत्तरमाह |
वा० भा०-इह कर्णन यत् फलमानीयते तदेव समीचीनम्। यन्मन्दकर्मणि कणों न कृतस्तत् स्वल्पान्तरत्वात् । मन्दफलानि हि स्वल्पानि भवन्ति । तदन्तरं चातिस्वल्पमिति केषा चित् पक्षः ॥ ब्रह्मगुप्सोऽत्र कारणमाह ॥ त्रिज्याभक्तः परिधिः कर्णगुण इत्यादि' । मन्दकर्मणि मन्दकर्णतुल्येन व्यासार्धेन यद्वृत्तमुत्पद्यते तत् कक्षामण्डलम् । तेन ग्रहो गच्छति । यो मन्द परिधिः पाठपठितः स त्रिज्यापरिणतः ॥ अतोऽसौ कर्णव्यासार्धे परिणाम्यते । ततोऽनुपातः । यदि त्रिज्यावृत्तेऽयं परिधिस्तदा कणंवृत्ते क इति । अत्र परिधेः कर्णो गुणस्त्रिज्या हरः । एवं स्फुटपरिधिस्तेन दोज्य गुण्या भांशे: ३६० भाज्या । ततस्त्रिज्यया गुण्या कणेंन भाज्या । एवं सति त्रिज्यातुल्ययोः कर्णतुल्ययोश्च गुणहरयोस्तुल्यत्वान्नाशे कृते पूर्वफलतुल्यमेव फलमागच्छ तीति ब्रह्मगुसमतम्। अथ यद्यव परिधे: कर्णन स्फुटत्वं तहिं कि शीघ्रकर्मणि न कृतमित्या शङ्कय चतुर्वेद आह। ब्रह्मगुप्पेनान्येषां प्रतारणपरमिदमुक्तमिति। तदसत्। चले कर्म णीत्थं कि न कृतमिति नाशङ्कनीयम् । यतः फलवासना विचित्रा । शुक्रस्यान्यथा परिधेः स्फुटत्वं भौमस्यान्यथा तथा कि न बुधादीनामिति नाशङ्कच्यम् ॥ अतो ब्रह्मोक्तिरत्र सुन्दरी। ३६-३७ ।
इदानी नतकर्मवासनामाह- |
१. अत्र ब्रह्मगुप्सः--
त्रिज्याभक्तः परिधिः कर्णगुणो बाहुकोटिगुणकाराः ।
असकृन्मान्दे तत्फलमाद्यसमं नात्र कणोंऽस्मात् ॥
अपि च श्रीपतिः---
त्रिज्यागुणः श्रुतिहृतः परिधिर्यतो दोःकोट्योर्गुणो मृदुफलानयनेऽसकृत् स्यात् ।
स्यान्मन्दमाद्यसममेव फलं ततश्च कर्णः कृतो न मृदुकर्मणि तन्त्रकारैः ॥
सि० शे० १५ अ० ४५ श्लो० ।।