भङ्गिद्वयं चेल्लिखितं विमिश्रं वृत्तद्वयेऽप्यत्र यथोत्तदत्तः । |
व० भा०-ग्रह: पूर्वगत्या प्रतिमण्डलेनैव भ्रमति। यदेतस्नीचोच्चवृत तत् प्र जैर्गणकै: फलार्थं कल्पितम् । तत्र प्रतिमण्डलगतेविलोमं ग्रहो गच्छन्निव प्रतिभाति । कथं तत्र विलोम गतिः प्रतिभाति ॥ तत्र दृष्टान्तः । यथा तैलिकयन्त्रमध्ये तिलपीडनार्थमूर्ध्वकाष्ठं प्रक्षिप्यते । तस्य यथा गोभ्रमाद्विपरीतो भ्रमः । तत्र गौ: किलापसव्यं भ्रमति। तदूध्र्वकाष्ठ तथा स्राम्य माणमपि स्वाङ्गन सव्यभ्रममुत्पादयति । एवं नीचोच्चवृत्ते भ्रमणं विपरीतमिव प्रतिभाति । शेषं स्पष्टम् ॥ ३०.. ३३ ॥
॥ इति मिश्रभङ्गिः ।।
वा०-ननु प्रतिमण्डलस्था'नान्नीचोच्चवृत्ते ग्रहस्थानमन्यथा प्रतिभातीति तयोः किं यथार्थमित्यत आह--मन्दोच्चतोऽग्र इति । नीचोच्चवृत्त इति । प्राज्ञैः कृतस्य कल्पनाद्वयस्य फलार्थत्वात्तस्य फलस्य प्रकारद्वयेनाप्यविशेषादुभयमपि तथ्यमित्यर्थः । द्वयोः छेद्यकयोः फलाभेददर्शनार्थमाह-भङ्गीद्वयमिति । द्वयोः छेद्यकयोर न्यथाभानं दृष्टान्तेन साधयति । यथा भवेदिति ॥ ३०-३३ ।
इदानीं मन्दशीघ्रकर्मद्वयेन स्फुटत्वे कारणमाह
मध्यगत्या स्वकक्षाख्यवृत्ते व्रजेन्मन्दनीचोच्चवृत्तस्य मध्यं यतः । |
वा० भा०-नीचोच्चवृतभङ्गिपर्यालोचनयैवं परिणमतीति स्पष्टार्थम्। ३४-३५ ॥ वा० वा०--मध्यगत्या स्वकक्षाख्यवृत्ते व्रजेदिति । अत्र तद्वृत्तावित्यत्र कक्षावृत्त इत्यर्थः ।
फलासकृत्साधने युक्तिमाह-शीघ्रनीचोच्चवृत्तस्येति । केवलवास्तवशीघ्रफल संस्कृतमध्यमतुल्यं यदा मन्दोच्चं तदा मन्दफलाभावो दृष्टः । केवलवास्तवमन्द फलसंस्कृतमध्यमतुल्यं यदा शीघ्रोच्चं तदा शीघ्रफलाभावो दृष्ट्स्तस्माद्वास्तवस्पष्टग्रहातू साधितं मन्दफलं मध्यमे देयं मन्दस्पष्टः स्यात् । तस्मात् साधितं शीघ्रफलं मन्दस्पष्टे देयं स्पष्टः स्यात् । अतोऽसकृत् साधनं कृतम् । अन्यत्स्पष्टम् ॥ ३४-३५ ।।
१. प्रतिमण्डलयानादिति क ख पु० ।