पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/432

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३९०
सिद्धान्तशिरोमणी गोलाध्याये

इदानी ता भङ्गिमाह
कक्षास्थमध्यग्रहचिह्नतोऽथ वृत्तं लिखेदन्त्यफलज्यया तत्।
नीचोच्चसंज्ञं रचयेच्च रेखां कुमध्यतो मध्यखगोपरिस्थाम् ॥ २४ ।।
कुमध्यतो दूरतरे प्रदेशे रेखायुते तुङ्गमिह प्रकल्प्यम्।
नीच तथासन्नतरेऽथ तिर्यङ्नीचोच्चमध्ये रचयेच्च रेखाम् ॥ २५ ।।
नीचोच्चवृत्ते भगणाड्रितेऽस्मिन् मान्दे विलोमं निजकेन्द्रगत्या ।
शैघ्रयेऽनुलोमं भ्रमति स्वतुङ्गादारभ्य मध्यद्युचरो हि यस्मात् ॥ २६ ।।
अतो यथोक्त मृदुशीघ्रकेन्द्र देयं निजोच्चाद्द्युचरस्तदग्रे।
दोज्योंच्चरेखावधि खेटतः स्यातिर्यक्स्थरेखावधि कोटिजीवा। २७ ।

     वा ' भा०-प्राग्वत् कक्षावृत्तं चक्रांशाडूितं कृत्वा तत्र मध्यग्रहं च दत्वा ग्रहचिहऽ न्त्यफलज्याप्रमाणेनान्यद्वृत्तं लिखेत् । तन्त्रीचोच्चवृत्तसंज्ञम् । अथ भूमृध्याद्ग्रहोपरिगता रेखा किंचिद्दीष्घ कार्या । सात्रोच्चरेखा । नीचोच्चवृत्ते भूमेर्दुरतरे प्रदेशे रेखायुत उच्चं प्रकल्प्यम् । अ,सन्ने रेखायुते नीचम् । नीचोच्चचिहुाभ्यां मत्स्यमुत्पाद्य तिर्यग्रेखा मध्ये कार्या । तस्मिन् वृत्ते केन्द्रगत्योच्वस्थानादारभ्य मध्यग्रहो भ्रमति । मान्दे विलोमं शैघ्रद्येऽनुलोमम् ॥ अतः कारणान्म न्दकेन्द्रमुच्चाद्विलोम देयम् । शीघ्रकेन्द्रमनुलोमम्। तदग्रे ग्रहः । अत्रापि ग्रहोच्चरेखान्तरे दोज्य । ग्रहतिर्यग्रेखयोरन्तरे कोटिज्या ॥ २४-२७ ।

इदानीं कर्णानयन फल चाह
ये केन्द्रदोःकोटिफले कृते ते नीचोच्चवृत्ते भुजकोटिजीवे ।
त्रिज्योध्र्वतः कोटिफलं मृगादौ कक्र्यादिकेन्द्रे तदधो यतः स्यात् ॥२८॥
अतस्तदैक्यान्तरमत्र ? कोटिदोंदःफलं भूग्रहमध्यसूत्रम् ।
कर्णोऽथ मध्यग्रहकर्णमध्ये फलं धनर्ण तदिहोक्तवच्च ॥ २९ ।।

     वा० भा०--पूर्वार्ध सुगमम् । कक्षावृत्ते व्यासार्ध किल त्रिज्या । त्रिज्याग्रादुपरि कोटि फलं यतो मृगादौ केन्द्र भवति कक्र्यादौ तु तदधः । अस्तदैक्यान्तरं स्पष्टा कोटिः । तस्मिन् त्र्यस्रे भुजफलमेव बाहुः ॥ भूग्रहान्तरं कर्णः । दोःकोटिवर्गैक्यपदमिति प्रसिद्धम् । अत्रापि प्राग्वत् कक्षावृत्ते कर्णसूत्रसक्के स्फुटो ग्रहः । स्फुटमध्ययोरन्तरं फलमित्यादि। २८-१९ ॥ इति नीचोच्चवृत्तभङ्गिः ।

अथ मिश्रभङ्गिमाह
मन्दोच्चतोऽग्रे प्रतिमण्डले प्राग्ग्रहोऽनुलोमं निजकेन्द्रगत्या ।
शुीघ्राद्विलोमुं भ्रमतीव भाति विलम्बितः पृष्टुत एव यस्मात् ॥३१॥
नीचोच्चवृत्ते पुनरन्यथा ते तस्यानुलोमप्रतिलोमयाने ।
एका गतिः सा प्रतिभानमन्यत् प्राज्ञैः फलार्थं प्रविकल्पितं तत्' ॥३१॥


परिकल्पितं तत्। इति पाठान्तरम् ।