तुङ्गोध्र्वरेखा खलु यत्र लग्ना तत्रोच्चमस्मिन् प्रतिमण्डलेऽपि । |
देयस्तदुच्चान्तरमत्र केन्द्र दोज्योंच्चरेखाखगयोश्च मध्ये । |
वा० भा०-भित्तेरुत्तरपाश्र्वे बिन्दु कृत्वा तस्माद्विबन्दोस्त्रिज्यामितेन कर्कटेन वृत ` विलिखेत् । तत् कक्षावृत्तम् ॥ यस्य ग्रहस्य छेद्यकं विलिख्यते तस्य मध्यमभुक्तिपञ्चदशांशेन तस्मिन्नेव बिन्दौ यद्वृत्तं क्रियते सा भूः । लम्बनावनतिदर्शनार्थमियं भूः । अन्यथा बिन्दुरेव भूः कल्प्यते । तत् कक्षावृत्तं चक्रांशैरङ्कश्यम् । तत्रेष्टस्थाने मेषादि प्रकल्प्य तस्मान्मध्यमग्रहमुच्चं च दत्त्वा तदग्रयोश्चिह्रो कार्य । भूम्युच्चयोरुपरि गता रेखा कार्या । सोच्चरेखा । अथ भूमध्य उच्चरेखाजनितमत्स्येन तिर्यग्रेखान्या कार्या । अथ ग्रहस्यान्त्य फलज्यामितं सूत्रं भूमध्यादुच्चरेखायां दत्त्वा तदग्रचिह्नात् त्रिज्यामितेनैव कर्कटकेन यद्वृत्तं विलिख्यते तत् प्रतिमण्डलम् । तत्रापि सैवोच्चरेखा ॥ किंतु तन्मध्येऽन्या तिर्यग्रेखा कार्या । प्रतिमण्डलमपि चक्रांशैरङ्कश्यम् ॥ अथोच्चरेखोपरि नीयमाना यत्र लगति तत्र प्रतिमण्डलेऽप्युच्चं कल्प्यम् । तस्मादुच्चराशिभागान् विलोमतो गणयित्वा तदग्रे मेषादिः कल्प्यः । ततो ग्रहोऽनुलोमं देयः । तत्र ग्रहोच्चयोरन्तरं केन्द्रम् । उच्चरेखायास्तिर्यग्रहगामिनी रेखा सा दोष्ज्र्या । प्रतिमण्डलमध्ये या तिर्यग्रेखा तद्ग्रहयोरन्तर कोटिज्या । सा किलोध्वरूपा भवति । १०-१४ ।
वा० वा०-त्रिभज्यकासम्मितकर्कटेनेति भङ्गीद्वयं स्पष्टमुक्तम्। भूगर्भक्षितिजाद् भूपुष्ठस्थक्षितिजं भूव्यासार्द्धयोजनैरुच्छ्रितमिति मध्यमखेटभुक्तितिथ्यंशमानेन महीं सुवृत्तामित्युक्तम् । गतियोजनैर्गतिकलास्तदा भूव्यासार्द्धयोजनैः किमिति गतितिथ्यंशः सिध्यति ॥ १०-१४ ।।
इदानी फलानयन इतिकर्तव्यतोपपत्तिमाह
मध्यस्थरेखे किल वृत्तयोर्ये तदन्तरालेऽन्यफलस्य जीवा ॥
तदूर्ध्वतः कोटिगुणो मृगादौ कक्र्यादिकेन्द्रे तदधो यतः स्यात् ॥ १५ ।।।
अतस्तदैक्यान्तरमत्र कोटिदोज्य भुजस्तत्कृतियोगमूलम्' ।
कर्णः कुमध्यप्रतिमण्डलस्थखेटान्तरे स्पष्टखगो हि दृश्यः ॥ १६ ।।।
कक्षाख्यवृत्ते श्रुतिसूत्रसक्त फलं च मध्यस्फुटखेटमध्ये ।
मध्येऽग्रगे स्पष्टखगादृणं तत्पृष्ठस्थिते स्वं क्रियते ततश्च ॥ १७ ।।।
१. अत्र श्रीपतिः
ग्रहपरफलमौव्या दत्तयोध्वें कुमध्यातू प्रतिवलयमिदं स्याद्व्यासखण्डेन वृत्तम् ।
भवति हि निजकक्षामण्डलाग्रे यदन्यत् परफलगुणवृत्तं स्वोच्चनीचाख्यमेतत् ।।
सि० शे० १६ अ० २ श्लो० ।।