एकस्य ग्रहबिम्बस्य मध्यगतिस्पष्टगतिभेदोपलम्भान्यथानुपपत्या कारणमि- दमाद्यैः कल्पितम् । तस्मात्कारणाद् भूस्थो द्रष्टा नहि भवलये मध्यतुल्यं प्रपश्येत् ।यस्मादिदं तस्मातदो: फल मध्यखेटे क्रियते भूमिकेन्द्रगतभवलयकेन्द्रात्कुत्र ग्रहभ्रमण- वृतकेन्द्र, कथं च भुजज्या कोटिज्या ज्ञानं, का चान्त्यफलज्या, कर्थ च कोटिकर्ण साधनं, कुत्र मध्यग्रहस्थानं कुत्रोच्चनीचस्थानं कि नाम केन्द्र, के च केन्द्रभुजकोटी, कुत्र भुजफलोपलम्भः, कर्थ च ग्रहस्य वक्रमार्गत्वोपलम्भ इत्यादिप्रतिपादनार्थ छेदक- द्वयमाद्यः कल्पितम् । एका प्रतिमण्डलभङ्गिरन्या नीचोच्चवृत्तस्य ।
भूमेर्मध्ये खलु भवलस्यापि मध्यं यतः स्याद् ।
यस्मिन् वृत्ते भ्रमति खचरो नास्य मध्यं कुमध्य इति बोधार्थ छेद्यकं विलिख्य दर्शयेदित्याह-पूर्वापरायतायामिति ॥ ७-८ ।
इदानीं कालविलम्बेन प्रतारणपरं वाक्यमिति ज्ञात्वा शिष्यैः पुनः पृष्टः सन्नाह--
दिव्यं ज्ञानमतीन्द्रियं यदृषिभिर्ब्राह्मं वसिष्ठादिभिः ।
पारंपर्यवशाद्रहस्यमवनीं नीतं प्रकाश्यं ततः ।
नैतद्द्वेषिकृतघ्नदुर्जनदुराचाराचिरावासिनां
स्यादायुः सुकृतक्षयो मुनिकृतां सीमामिमामुज्भतः' ।। ९ ।
वा० भा०-स्पष्टाथम् ॥ ९ ।
वा० वा०-एतत् सुशिष्याय देयं नान्यस्मै इत्याह-दिव्यं ज्ञानमिति ॥ ९।
इदानी विलिख्य छेद्यकमाह
त्रिभज्यकासंमितकर्कटेन कक्षाख्यवृत्तं प्रथमं विलिख्य । |
१. अत्र श्रीपतिः
भक्ताय शिष्याय चिरोषिताय गुणोपपन्नाय च देयमेतत् ।
भ्रात्रे चं मित्राय सूनवे च सुदुर्लभं छेद्यकगोलतन्त्रम् ॥
सि० शे० २० अ० २७ श्लो० ।
प्रतिकञ्चुककृत्कृतघ्नविद्द्विड्वपिताधार्मिकमूर्खदुर्जनेभ्यः ।
इह तन्नरहस्यमप्रमेयं ददतः स्यात् सुकृतायुषोः प्रणाशः ।
सि० शे० २० अ० २६ श्लो० ।