पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/428

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३८६
सिद्धान्तशिरोमणौ गोलाध्याये

तुल्येन कोटिज्या त्रिज्यायोगो भुजोक्रमज्योनद्विगुणत्रिज्या तुल्यो गुणनीयो जातो भुजक्रमज्यावर्ग: । अत्रोत्क्रमञ्ज्यागुणितोत्क्रमज्यारूपउत्क्रमञ्ज्यावगीं योज्यः कर्णवगों भवति। तत्र गुणगुणितयोयॉज्ययोजकयोयोंगे केवलयोर्योज्ययोजकयोयोंगे गुणगुणिते फलाविशेषात् कोटिज्यात्रिज्यायोगे उत्क्रमज्यायोजिता जाता द्विगुणत्रिज्या इयमुत्क्र- मज्यागुण ततोऽस्याः मूलदलं ग्राह्यमिति चतुभिर्भागे हुते गुणहरौ गुणेनापवत्र्य त्रिज्योत्क्रमज्या निहतेरिति सम्यगुक्तम् ।

 अत्र नवत्यंशमध्ये गुणाश्चतुविंशतिष्मिता रूपादय इति शास्त्रान्तरप्रसिद्धेमौंवीं ज्या शिव्जिनी गुण इत्यनेन गुणशब्दस्य जीवापरत्वादाद्यश्चतुविशतिष्मिता जीवाः कल्पितास्ताः पूर्वोक्तप्रकारेण सिध्यन्तीत्याह- एवमिति । प्रकारान्तरेणाह-त्रिज्योत्थ वृत्त इति ॥ २-६ ।

 इदानी स्पष्टीकरणे फलस्योत्पत्तिमाह-

भूमेर्मध्ये खलु भवलयस्यापि मध्यं यतः स्याद्-
स्मिन् वृत्ते भ्रमति खचरो नास्य मध्यं कुमध्ये ।
भूस्थो द्रष्टा नहि भवलये मध्यतुल्यं प्रपश्येत्
तस्मात् तज्ज्ञैः क्रियत इह तद्दोःफलं मध्यखेटे ॥ ७ ।

 वा० भा०-यदेतत् भपब्जरेऽश्विन्यादीनां भान वलयं तद्भूमेः समन्तात् सर्वत्र तुल्येऽ- न्तरे वर्तते । यतस्तस्य मध्यं कुमध्ये । अथ यस्मिन् वृत्ते ग्रहो भ्रमति तस्य मध्यं कुमध्ये न । तद्भूमेः समन्तात् समानान्तरं नेत्यर्थः । अतो भूस्थो द्रष्टा भवलये मध्यमस्थाने ग्रहं न पश्यति। किंत्वन्यत्र पश्यति । तयो भवलये यदन्तरं तद्ग्रहस्य फलमित्यर्थादुत भवति। अत उत्त तस्मात् तज्ज्ञः क्रियत इह तद्दोः:फलं मध्यखेट इति ॥ ७ ।

 एवमेकेनैव श्लोकेन संक्षेपाच्छेद्यकसर्वस्वमुक्त्वेदानी किचित् सविस्तरं छात्रान् प्रत्याह-

पूर्वापरायतायां तद्धितावुत्तरपाश्र्वके।
दर्शयेच्छिष्यबोधार्थं लिखित्वा छेद्यकं सुधीः ।। ८ ।

 वा० भा०- नाद्यापीद सम्यगस्माभिज्ञयित इति शिष्यैरुत आचार्य आह। पूर्वापरायतायामित्यादि । स्पष्टार्थम्। ८ ।

 वा० वा०–संसिद्धात् द्युगुणादिति प्रश्नस्योत्तरमाह—भूमेर्मध्य इति । यस्माद् भूस्थो द्रष्टा नक्षत्रवलये चक्रयन्त्रादिना मध्यतुल्यं ग्रहं न 'पश्यति तेनाहर्गणागत- ग्रहस्यास्पष्टता । गगने यादृशं पश्यति। स स्पष्टग्रह इत्युच्यते । मध्यमस्पष्टयोरन्तरं फलम् तस्मात् स्पष्टग्रहज्ञानार्थं तद्दोः फलं मध्यखेटे क्रियत इत्यर्थः । मध्यात् स्पष्टग्रहवि- सदृशोपलम्भः प्रत्यक्षसिद्धस्तथाप्यत्र केनचित् कारणेन भाव्यमिति तदाह-यस्माद् भूमेर्मध्ये भवलयस्यापि मध्यं यतः स्याद्यस्मिन् वृत्ते भ्रमति खचरो नास्य मध्यं कुमध्ये स्यादिति कारणं कल्पितम् ।


१. दरूपति, इ० खपु० ।