पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/425

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३८३
अथ छेद्यकाधिकारः

इदानीं गोल विवशुरादौ ज्योत्पत्तिकथने कारणमाह‌--

पटो यथा तन्तुभिरूर्ध्वतिर्यग्रूपैर्निबद्धोऽत्र तथैव गोलः ।
दो:कोटिजीवाभिरमुं प्रवक्तुं ज्योत्पत्तिमेव प्रथमं प्रवक्ष्ये। १ ।।

वा० भा०-स्पष्टम्। १ ।

इदानी जीवाक्षेत्रसंस्थार्न तावदाह--

इष्टा त्रिज्या सा श्रुतिर्दोर्भुजज्या कोटिज्या तद्वर्गविश्लेषमूलम् ।
दोःकोष्ठ्वंशानां क्रमज्ये पृथक्ते त्रिज्याशुद्धे कोटिदोरुत्क्रमज्ये ॥ २ ॥

ज्याचापमध्ये खलु बाणरूपा स्यादुत्क्रमज्या त्रिभमौविंकायाः ।
वर्गार्घमूलं शरवेदभागजीवा ततः कोटिगुणोऽपि तावान् ॥ ३ ॥

त्रिभज्यकार्ध खगुर्णाशजीवा तत्कोटिजीवा खरसांशकानाम्।
क्रमोत्क्रमज्याकृतियोगमूलाद्दल तदर्धाशकशिद्धिनी स्यात्। ४ ।।

त्रिज्योत्क्रमज्यानिहतेर्दलस्य मूलं तदर्धाशकशिद्धिनी वा।
तस्याः पुनस्तद्दलभागकानां कोटेश्च कोष्ठ्यंशदलस्य चेवम् ॥ ५ ।।

एवं त्रिषट्सूर्यजिनादिसंख्या अभीष्टजीवाः सुधिया विधेयाः ।
त्रिज्योत्थवृत्ते भगणाङ्गिते वा ग्राह्या अभीष्टा विगणय्य जीवाः ॥ ६ ॥

 वा० भा०-अत्र त्रिज्योत्थवृत्ते भगणाड्रिते वेत्येतदन्त्यवृत्तस्योत्तरार्धमादी व्याख्यायते । ज्योत्पत्तावभीष्टा त्रिज्या कल्यते समायां भूमी त्रिज्यामिताङ्गुलेन सूत्रेण वृत्त विलिख्य दिग- ङ्कितं चक्रशोकैश्चाङ्कितं कृत्वा तत्रैकस्मिन्नेकस्मिन् वृत्तचतुर्थाशे नवतिर्नवतिर्भागा भवन्ति । ततो यावन्ति ज्यार्धानि कार्याणि तावद्धिविभागैरेकैक वृत्तचतुर्थाश विभज्य तत्र चिह्नानि कार्याणि । तद्यथा । यत्र चतुविशतिजीवाः साध्यास्तत्र चतुविशतिर्भवन्ति । एवं द्विती- यचतुर्थाशेऽपि । ततो दिक्चह्वादुभयतश्चिह्नद्वयोपरि गतं सूत्रं ज्यारूपं भवति । एवं चतु- विशतिज्र्या भवन्ति । तासामर्धानि ज्यार्धानि । तत्प्रमाणान्यङ्गुलैर्मित्वा ग्राह्याणि ।

 अथादितो व्याख्यायते ॥ येष्टा त्रिज्या स कर्णः कल्प्यः । या भुजज्या स भूजस्तयोः कर्णभुजयोर्वर्गान्तरपदं कोटिः । कोटिज्येत्यर्थः । तत्र ये भुजकोटिज्ये ते भुजकोटयंशानां क्रमञ्ज्ये ज्ञातव्ये । भुजज्या त्रिज्यातो। यावद्विशोध्यते तावत् क्रोटयंशानामृत्क्रमज्यावशि- ष्यते । एवं कोटिज्योना त्रिज्या भुजांशानामुत्क्रमज्या स्यात्।