अथोत्क्रमज्यास्थान दर्शयतति। तत्र पूर्वलिखिते वृते चिह्नयोरुपरि गत सूत्र किल ज्या । तदुपरि तयोश्चिन्हयोर्मध्ये यद्वृत्तखण्डं तःच्चापं धनुः । चापमध्यस्य ज्याधमध्यस्य च यदन्तर बाणाकार सोत्क्रमज्येत्युच्यते । त्रिभमौविकाया इत्यग्रे सम्बन्ध: ।
एवं साधारण्येन ज्याक्षेत्रं दर्शयित्वाथ निर्दिष्टांशानां गणितेन ज्यानयनम् । त्रिभमौ विकाया यद्वर्गार्धस्य मूलं सा पश्वचत्वारिंशदंशानां ज्या स्यात् । तस्या यावत् कोटिज्या साध्यते तावत् तावत्येव भवति । यतस्तत्र कोटच्यंशा अपि पञ्चचत्वारिंशत् ।
अत्रोपपत्तिः-त्रिज्या भुजस्त्रिज्या च कोटिस्तद्वर्गयोगपदं वृत्तान्तःसमचुरस्रस्य भुजः स्यात् । सैव नवतिभागानां ज्या । तदर्धं ग्राह्यम् । अतो वर्गयोगस्य चतुर्थाशः कृतः । तदेव त्रिज्यावर्गार्धमतस्तन्मूलं शरवेदभागज्येत्युपपन्नम् ।
अथ त्रिशद्भागानां ' ज्या त्रिज्यार्घमिता स्यात् । तस्याः कोटिज्या षष्टिभागानां ज्या स्यात् ।
अत्रोपपत्तिः -वृत्तान्त पातिसमषडस्रस्य भुजो व्यास,र्धमितः स्यादिति' प्रसिद्धं गणिते- ऽपि कथितम् । अतस्त्रिज्यार्धं त्रिशद्भागज्येत्युपपन्नम् ।
अतः प्राग्वदुत्क्रमज्या । षष्टिभागज्ययोना त्रिज्या राशेरुत्क्रमज्या । सा कोटिरू- पिणी । कमज्या भुजरूपिणी । तदग्रयोनिबद्धसृत्रं तत् कर्णः । तत् त्रिशद्भागानां ज्यारु- पम् । अतस्तवर्धं पञ्चदशभागानां ज्यार्धमित्युपपन्नम् । एवं सर्वत्र तदर्धाशकशिञ्जिनी- नामुपपतिज्ञेया ।
अथ प्रकारान्तरेण तदधौशकशिक्षिनीमाह-त्रिज्योत्क्रमज्यानिहतेरित्यादि। अस्योपपत्तिः--तत्राद्याक्षरचिन्हैर्वीजप्रकारेण कथ्यते । तत्रोत्क्रमज्योना त्रिज्या किल कोटिज्या । तस्या वर्गोऽयम् । उव १ । उत्रिभा ३ त्रिव १ अनेनोना त्रिज्याकृतिर्दोज्र्या कृति: स्यात्। उव १ उत्रिभा २ । अर्थ क्रमज्यावर्ग उत्क्रमज्यावर्गयुतो जातः । उत्रिभा २ । अस्य चतुर्थभागः । उत्रिभा वै । अस्य मूलं ग्राह्यम् ॥ अत उक्तं त्रिज्योत्क्रमज्यानिहते रित्यादि । एवं तस्या अप्यन्या तदधाँशकशिब्जिनीति । एवं कोटिज्याया अपि यावद- भिमतखण्डानि स्युः ।
तद्यथा । यत्र चतुविशतिःखण्डानि तत्र राशेज्यष्टिमं खण्डम् ८ ॥ तत्कोटिज्या षोड- शम् १६ । शरवेदभागज्या द्वादशम् १२ । अस्मात् खण्डत्रयात् कथितप्रकारेण चतुविश- तिःखण्डान्युत्पद्यन्ते ॥ तत्राष्टमात् तदर्धाशकशिञ्जिनी चतुर्थम् ४ ॥ तत्कोटिज्या विशम् २० । एवं चतुर्थाद्वितीयम् २ । द्वाविंशं च २२ । द्वितीयात् प्रथम १ त्रयोविशं च २३ । एवं दशमचतुर्दशपञ्चमैकोनविशससमससदशेकादशत्रयोदशानीत्यटगातू १० । १४ । ५ । १९ । ७ । १७ । ११ । १३ । अथ द्वादशात् षष्ठाष्टदशतृतीयेकविशनवमपञ्चदशानि ६। १८ । ३ । २१ । ९। १५ । त्रिज्या चतुविशमिति २४ ॥ अतोऽवशिष्टां ज्योत्पत्तिमग्रे वक्ष्यामः ॥ २-६ ।
१. अत्र श्रीपतिः क्षेत्र षडस्र हृदयाख्यरज्जुबहिो: समा गोलविदो वदन्ति । वृत्ते परीणाहुषडंशजीवा विष्कम्भखण्डेन समोपलब्धे: ।।
सि० शे० १६ अ० ११ श्लो० ।।