तत्र तावत् पूर्वापरमाह—
यल्लङ्गोञ्जयिनीपुरोपरि कुरुक्षेत्रादिदेशान् स्पृशत्
सूत्र' मेरुगतं बुधैर्निगदिता सा मध्यरेखा भुवः ।
आदौ प्रागुदयोऽपरत्रविषये पश्चाद्धि रेखोदयात्
स्यात् तस्मात् क्रियते तदन्तरभवं खेटेष्वृणं स्वं फलम् ॥ २४ ।।
वा० भा०-लङ्काया मेरुपर्यन्तं नीयमाना रेखोज्जयिनीकुरुक्षेत्रादिदेशान् स्पृशन्ती याति सा मध्यरेखेत्युच्यते । रेखायां यदाकदथस्तत्कालात् पूर्वमेव पूर्वदेशे। भवति। रेखोदय- कालादनन्तरं पश्चिमदेशेऽकॉदयः । तदन्तरकालस्तदन्तरयोजनैः स्पष्टभूवेष्टनादनुपातेन ज्ञायते । यदि स्फुटपरिधियोजनैः षष्टि-२० घटिका लभ्यन्ते तदा रेखास्वपुरयोरन्तरयोजनैः किमितीति त्रैराशिकेन देशान्तरघटिका लभ्यन्ते। मध्यगत्याथ चानीता नाडघस्ताभिरनुपातः । यदि घटीषष्टया ग्रहस्य गतिकला लभ्यन्ते तदा देशान्तरघटीभिः किमिति। अथवा योजनैरेवा- नुपातः । स्फुटपरिधियोजनैर्गतिः प्राप्यते तदा देशान्तरयोजनैः किमिति । फलं कलाः प्रागूणं यतस्तत्र दावुदयः। पश्चाद्धनम्। यत्स्तत्र रेखोदयादनन्तरमकदय इत्युपपन्नम्। २४ ।
वा० वा०-चरज्ञानार्थ मध्यरेखास्वरूपमाह-यल्लड्रोब्जयिनीति ॥ २४।
इदानों भूगोले स्फुटपरिधिप्रदेश स्फुटतानुपात चाह
स्वदेशमेर्वन्तरयोजनैर्यलम्बांशजैमेरुगिरे: समन्तात्।
वृत्तं स्फुटो भूपरिधिर्यतः स्यात् त्रिज्याहृतो लम्बगुणः कृतोऽस्मात् ॥ २५ ।।
वा० भा०-स्वपुरस्य मेरुगर्भस्य चान्तरे यावन्ति योजनानि तावन्ति लम्बाँशजानि । यतो निरक्षदेशस्वपुरान्तरयोजनान्यक्षशिजानि । भागेभ्यो योजनानि च व्यस्तमित्युपपद्यत इत्यर्थः । तैर्लम्बांशजैर्योजनैर्मेरुगिरेः समन्ताद्यद्वृत्तमुत्पद्यते स स्फुटो भूपरिधिः । यो मध्यपरिधिः पठितः स निरक्षदेशोपरि । अयं तु स्वपुरोपरि । अतः किंचिन्न्यूनो भवति । अथ तदानयनम् । मध्यपरिधेरभीष्टं त्रिज्यातुल्यं व्यासार्ध प्रकल्ष्य तस्मिन् व्यासार्धे स्वपुरे यावती लम्बज्या तावत् स्फुटपरिघेव्र्यासार्ध भवितुमहँति । अतस्तेन त्रैराशिकम् । यदि त्रिज्याव्यासार्थे मध्यमः परिधिलभ्यते तदा लम्बज्यामिते क इति। फल स्फुटपरिधिरित्युपपन्नम्। २५ ।
इति गोलभाष्ये मध्यगतिवासना । अत्र ग्रन्थसंख्या १७५ ॥ |
वा० वा०-स्पष्टभूपरिधिस्वरूपं देशान्तरज्ञानार्थमाह-स्वदेशमेर्वन्तरयोजनै- रिति ॥ २५ ।।
श्रीमत्कौङ्कणवासिकेशवसुतप्राप्तावबोधाद्बुधाद्, |