पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/421

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३७९
मध्यगति वासना

मवमखण्डम् । यद्यनेन त्रिशच्चान्द्राणि दिनानि लभ्यन्ते तदा संपूर्णेनैकेनावमेन कियन्तीति त्रैराशिकेन लब्धे रुद्रांशष्कोनाठिंधरसै ६३ ॥ ५४ ॥ ३३ रेक: क्षयाही भवति । स च सावनः । अखण्डस्य रूपस्य सवनेच्छाकल्पनात् ॥ अतोऽनुपातात् कल्पेऽपि ॥ १२ ।।

 इदानीमधिमासस्य चान्द्रत्वमवमस्य सावनत्वमभिधायाहगंणातू कल्पगतभानेतुं विलोमबिबिना यान्यवमान्यानीतानि ये चाधिमासास्तेषा विशेषमाह--

सौरेभ्यः स.धितास्ते चेदधिमासास्तदैन्दवाः ।
चेच्चान्द्रेभ्यस्तदा सौरास्तच्छेषं तद्वशात् तथा ॥ १३ ।।
सावनान्यवमानि स्युश्चान्द्रेभ्यः साधितानि चेत् ।
सावनेभ्यस्तु चान्द्राणि' तच्छेषं तद्वशात् तथा ॥ १४ ।।

 वा० भा०-यथाहर्गणानयने सौरेभ्यश्चान्द्रान् साधयितु येऽधिमासा आनीयन्ते ते चान्द्रस्तच्छेषं च चान्द्रम् । यदि चान्द्रेभ्यः सौरान् साधयितुं तदा सौरास्तच्छेषमपि सौरम् । एवं चान्द्रेभ्यः सावनानि साधयितुम मान्यानीयन्ते तदा तानि सावनानि । यदि सावनेभ्य- श्चान्द्राणि कर्तुं तदा चान्द्राणि स्युः । सेध्यत्वं भजन्तीत्यर्थः । तच्छेषमपि तद्वशात् । अभिमतझुगणादवमेहतादित्यादिनाहगणातू ` कल्पगतमानीतं तदा सावनेभ्योऽवमान्यानी- तानि । तानि चान्द्राणि । चन्द्रदिवसेभ्योऽधिमासाः साधितास्ते सौरस्तच्छेषं तद्वशा- दित्यर्थः । अधिमासस्य चान्द्रत्वे सौरत्वे चाधिमासशेषं तुल्यमेव स्यात् । किंत्वेकत्र रविदिनानि छेदः । अन्यत्र चान्ब्राणि । एवमश्वमशेषस्यापि तुल्यत्वमेव । एकत्र चन्द्रदिनान्यन्यत्र कुदिनानि छेदः । अधिमासावमशेषयोरिष्टजातित्वं प्रकल्प्य मतिमद्भिश्चन्द्रावनियनानि कृत नि । तत्र ये जडास्ते वासनां पर्यालचयन्ती भ्रमन्ति । १३-१४ ।

इदानीं विशेषः সাউন্মুম্ন--

अहगंणस्यानयनेऽर्कमासाश्चैत्रादिचान्द्रेगंणकान्विताः किम् ।
कुतोऽधिमासावमशेषके च त्यक्तके यतः सावयवोऽनुपातः ।। १५ ।।

अस्य प्रश्नस्योत्तरमाह--

दशवधिश्चान्द्रसमो हि मासः सौरस्तु संक्रान्त्यवधिर्यतोऽतः ।
दर्शाग्रतः संक्रमकालतः प्राक् सदैव तिष्ठत्यधिमासशेषम् ॥ १६ ।।

दर्शान्ततो याततिथिप्रमाणैः सौरैस्तु सौरा दिवसाः समेताः ।
यतोऽधिशेषोत्थदिनाधिकास्ते त्यक्ततं तदस्मादधिमासशेषम् ॥ १७ ।।

तिथ्यन्त्स्रुर्योदययोस्तु मध्ये सदैव तिष्ठत्यवमावशेषम् ।
त्यक्तेन तेनोदयकालिकः स्यात् तिथ्यन्तकाले द्युगणोऽन्यथातः ॥ १८ ।।

 वा० भा०--मध्यममानेन यावत्यमावास्या तदन्ते चान्द्रमासान्तः । मध्यमार्कस्य यस्मिन् दिने संक्रान्तिस्तत्र संक्रान्तिकाले रविमासान्तः । तयो रविचन्द्रमासान्तयोरन्तरे यावत्यस्ति-