पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/422

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३८०
सिद्धान्तशिरोमणौ गोलाध्याय

ययः सावयवास्ता अधिमासशेषतिथयः । यतः सौरश्चान्द्रान्तरमधिमासाः । अहर्गणानयने गताब्दा रविगुणास्ते सौरा भासा जाताः । अतस्तेषु चैत्रादिचान्द्रतुल्याः सौरा एव मासा योजितास्ते संक्रान्त्यवधयो जातास्तेषु त्रिशद्गुणेषु गततिथितुल्याः सौरा एव दिवसा योजिताः ॥ अतः सौरश्चान्द्रान्तरेणाधिका जातास्तदन्तरमधिमासशोषदिनानि भव- न्ति । सौरचान्द्रान्तरत्वात् । अतोऽधिमासशेषदिनान्येभ्यः शोध्यानि । अथ चाधिमा- सानयनेऽनुपातलब्धेरधिमासेर्दिनीकृतैस्तच्छेषदिनैश्च युक्ताःसौराहाश्चान्द्राहा भवितुमहॅन्ति । एवमत्राधिमासशेषदिनानि क्षेप्याणि । तत्र शोध्यानि । अतः कारणादधिमासशेषं त्य- तम् । अथावमशेषत्यागकारणमुच्यते । तिथ्यन्तानन्तरं यावतीभिर्घटीभिः सूर्योदयस्ता अवमशेषघटिकाः । यतश्चान्द्रसावनान्तरमवमानि । यद्यवमशेषं न त्यज्यते लब्धावमै- रवमशेषघटिकाभिश्च तिथय ऊनीक्रियन्ते तदां तिथ्यन्ते " सावनोऽहर्गणो भवति । अथ च सूर्योदयावधिः साध्यः । तिथ्यन्ताहर्गणोऽवमशेषघटीभिर्युक्तः सन्नुदयावधिर्भवति । अतोऽवमशेषे त्यक्तके स्वतः सूर्योदयावधिर्भवति ॥ १५-१८ ।।

 अथोदयान्तराख्यकर्मोपपत्तिमाह -

अहर्गणो मध्यमसावनेन कृतश्चलत्वात् स्फुटसावनस्य ।
तदुत्थखेटा उदयान्तराख्यकर्मोद्भवेनोनयुताः फलेन ॥ १९ ।।
लङ्कोदये स्युर्न कृतास्तथाद्यैर्यतोऽन्तरं तच्चलमल्पकं च ।

 वा० भा०-योऽयमहर्गीण आनीतः स मध्यमसावनेनैव । कुतः । स्फुटसावनस्य चलत्वात् । तथाविधेनानुपातेन स्फुटी नायात्यर्थ: । युगादेरारभ्य वर्तमानरविवर्षादे: प्राग्यावान् मध्यमसावन- स्तावानेव स्फुटसावनः स्यात्। किंतु रविर्षादेख्ध्र्व यावान् मध्यमसावनस्तावान् न स्फुटः । अतस्तदुत्थखेटा उदयान्तराख्यकर्मोद्भवेन फलेनोनयुताः सन्तो लङ्कोदये स्युर्नान्यथा । लङ्कायां भास्करोदये मध्या इति यदन्यैरुत तदसतू ॥ १९-१९ ॥

 अथोदयान्तरकर्माह--

मध्याकभुता असवो निरक्षे ये ये च मध्याककलासमानाः ॥ २० ।
तदन्तरं यत् स्फुटमध्ययोस्तद्द्युपिण्डयोः स्याद्विवरं गतिघ्नम् ।
हृतं द्युरात्रासुभिराप्तलिप्ताहीना ग्रहाश्चेद्सवोऽल्पकाः स्युः ॥ २१ ।।
तद्न्यथाढथास्तु निजोदूर्धूश्चेत् भ्रुक्तासुपूर्वं विहितं तदानीम् ।
कृतं तथा स्याच्चरकममिश्र कम ग्रहाणासुदयान्तराख्यम् । २२ ।

 वा० भा०--सायनशेन रविष्णा मेषादेरारभ्य ये भुक्का राशयस्तत्सम्बन्धिनो ये निरक्षो- दयासबो गगनभूधरषद्कचन्द्रा १६७० इत्यादयस्तेषामेवयं कृत्वा भुज्यमानराशेयें भुका भागा- स्तांस्तदुवयासुभिः संगुण्य त्रिशता ३० विभज्य लब्धासवोऽपि तत्र क्षेप्याः । एवं मध्याक- भुक्तासवः स्युः । भदिनान्तावूर्ध्वं तावत्यस्वात्मके । काले लङ्कायां मध्यमस्यार्कस्योदयः । तत्काले हि प्रहाः साध्याः । अष्थ चाहणेन ये सिद्धास्ते मध्यमार्ककलामितेऽस्वात्मके