पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/419

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३७७
मध्यगति वासना

सौरेणेत्यत्र चान्द्रमासे यत्सावनमानं यत्सौरमासे समजातितया तयोरन्तरं चान्द्रोन- सौरैणेत्यनेनोक्तम् । यद्यनेनान्तरेणैकः सौरमासस्तदा चान्द्रमासतुल्येनाधिशेषेण किमिति सुगमम् ।

 शशाङ्कमासोनितसावनेनेत्यत्र शशाङ्कमासेन प्रागुक्तप्रमाणकेन त्रिशत्सावना- न्यूनतानि यदवशिप्यते तावतैवान्तरेणैकस्मिन् चान्द्रमासे त्रिशच्चान्द्रसंख्यातः सावनसंख्या क्षीयते । समजात्योरेव योगोऽन्तरं युक्तमित्येवमुक्तम् । यद्यनेनावमशेषेण त्रिशच्चान्द्रास्तदा रूपतुल्येन किमिति शोभनमुक्तम् । अत्र सौरमासान्ते साधितत्वा- दधिमासश्चान्द्रश्चान्द्रान्ते साधितत्वादवमः सावन इति शोभनमुक्तम् क्रान्तिमण्डल- स्थनक्षत्रस्थानोदयद्वयान्तरालकालो यथा सर्वदा तुल्य एवोपलभ्यते न तथाकों- दयद्वयान्तरालकाल इति ।

 'रविस्ततः स्वोदयभुक्तिघातात् खाभ्राष्टभूलब्धसमासुभिः' ।

 युता नाक्षत्रषष्टिघटिका रवेः स्फुटं द्युरात्रं भवतीत्युक्तम् । एवं सौरवर्षमध्ये भोदयसंख्यातः सूर्योदयसंख्या निरेका भवति ॥ ४-७ ।

 इदानी वर्षमध्ये सावनसंख्यामाह--

पश्चाङ्गरामास्तिथयः खरामाः सार्धद्विदस्राः कुदिनाद्यमब्दे ।
 अस्यार्कमासोऽर्कलवः प्रदिष्टस्त्रिंशद्दिनः सावनमास एव ॥ ८ ॥

 वा० भा०-एकस्मिन् सौरवर्षे पञ्चषष्टयधिकत्रिशती ३६५ मिताः सावनदिवसाः पञ्चदश १५ नाडिकाश्च त्रिशत् ३० पलानि च सार्धानि द्वाविशति २२॥३० विपलानि । एषा- मुपपत्ािमध्यगतिभाष्ये कथितैव । अस्यार्कवर्षस्य द्वादशांशोऽर्कमासो भवतीति युक्तम् ।।' सावन- मासस्तु सावनानां त्रिशतैव भवति ॥ ८ ।

 दानी चान्द्रमासमाह--

कालेन येनैति पुनः शशीनं क्रामन् भचक्रं विवरेण गत्योः ।
 मासः स चान्द्रोऽङ्कयमाः कुरामाः पूर्णेषवः २९॥३१॥५०

 स्तत्कुदिनप्रमाणम् ॥ ९ ।।

 वा० भा०--दर्शान्ते किल शशी रविणा युक्तो भवति। ततो द्वावपि पूर्वतो गच्छतः । तयोः शशी शीघ्रगत्वात् प्रत्यहं गत्यन्तरेणाग्रतो याति । एवं गच्छंश्चक्रकला २१६०० तुल्यम- न्तरं यदाग्रतो याति तदा रविणा योगमेति । तयोः कालयोरन्तरालं चन्द्रमासः ॥ तत्प्रमाणम- नृपातेन । चन्द्राकंयोमंध्यगती आदी सम्यक सावयये कृत्वा यदि गत्यन्तरेणेकं कुदिनं लभ्यते तदा चक्रकलातुल्येनान्तरेण कियन्तीत्यनुपातेन चान्द्रमासे कुदिनानि लभ्यन्ते। एकोनत्रिशद्दिनान्येकत्रिशद्घटिकाः पञ्चाशत् पलानि ३& ।। ३१ ॥ ५० । इत्युपपन्नम् ॥ ९ ॥

 इदानीमधिमासोपपत्तिमाह--

चान्द्रोनसौरेण हृतात् तु चान्द्रादवाससौरैर्दशनैदलाढयै: ३२ ॥ १६।।
मासैर्भवेच्चान्द्रमसोऽधिमासः कल्पेऽपि कल्प्या अनुपाततोऽतः ॥१०॥

सि०-४८