पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/418

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३७६
सिद्धान्तशिरोमणौ गोलाध्याये

तत्साधनीभूतोऽहर्गणस्तात्कालिकोपेक्षित इति सौराणां चान्द्रीकरणार्थं मासदिनक्षय- शेषत्यागः क्रियत इति तत्कारणमुक्तम् । दशविधिश्चान्द्रो मासः । सौरस्तु सङ्क्रान्त्य- वधिः । यावन्तश्चान्द्राश्चैत्रात्सौरवर्षगणेषु दिनीकृतेषु योजितास्तावन्तः सूर्य- स्यांशा यस्मिन् काले भवन्ति तत्कालतः पूर्वं येषु चैत्रादिचान्द्रेषु द्युगणोऽपेक्षित- स्तत्कालादग्रतो याः सावयवास्तिथयस्तस्मिन् काले शुध्यधिशेषोत्थदिनशब्दवाच्याः । तत उत्ततं ।

 ‘दशग्रतः सङ्क्रमकालतः'

 इति । चैत्रादिचान्द्राणां सौरीकरणार्थमधिमासावयवः शोध्यस्ततो निरन्त रस्य सौरगणस्य चान्द्रीकरणार्थमधिमासावयवो योज्यः ।

 तुल्ययोरधिमासावयवयोर्धनर्णक्षेप्यत्वान्नाशो भविष्यतीति शेषत्यागः कृतः । चैत्रादिचान्द्रेष्वधिकमेवाधिदिनादिकमस्तीति शेषत्यागः कृत इत्याह-'दशन्ततो यात- तिथि प्रमाणे' इति । कल्पादेरिष्टचेत्रादिगतचान्द्रपर्यंन्तं सौरगणस्य खण्डत्रयम् । कल्पादेः रगणसाधितनिरवयवाधिमासपतनकालपर्यन्तमेको खण्डम् । द्वितीयं त्वधिमासपतनकालादिष्टसौरवर्षादिपर्यन्तं सौरदिनखण्डम् । तृतीयन्तु सौरवर्षादेश्चैत्रा- दिगतश्चान्द्रतुल्यचैत्रादिगतचान्द्रपर्यन्तं सौरदिवसानामज्ञानेन कल्पितम्। तत्रास्मिन् तृतीयखण्डे सौरवर्षादेश्चैत्रादिगतचान्द्रपर्यंन्तं ये सौरास्तज्ज्ञानार्थ कल्पादिगतसौर- साधिताधिशेषदिनानि शोध्यानि तानि न शोधितानीति’ तृतीयखण्डेऽधिकान्येव सन्ति। द्वितीयतृतीयखण्डयोगो यथास्थित एव कृताधिमासदिनयोगे पूर्वखण्डे योज्यः। शेषस्य पूर्वमेव तृतीयखण्डे योजितत्वाच्छेषत्यागः कृतः।यद्वा तृतीयखण्डे चान्द्रा जाता एव सन्त्यतो न प्रयत्नः कार्यः|प्रथमखण्डे तु निरवयवाधिमासदिनयोगे नैव चान्द्रा भवन्तीत्युतमेव। द्वितीयखण्डे तु निकष्टपतिताऽधिमासान्तातूसौरवर्षा- दिपर्यन्तं ये सौरा ये च चान्द्रास्तेषामन्तरं सौरवर्षादिजा शुद्धि:। द्वितीयखण्डे शुद्धिरियं योज्या निकटपतिताऽधिमासान्तादिष्टसौरवर्षपर्यन्तं द्वितीयखण्डे चान्द्रा भवन्ति। तृतीयखण्डे तु चैत्रादितश्चान्द्रा जाता एव सन्त्यतो वर्षादिजशुद्धियुक्तै द्वितीयखण्डे वर्षादिजशुद्धिः शोध्या। चैत्रादितः प्रागधिमासपतनादूध्वमेव चान्द्र दिनज्ञानस्यापेक्षितत्वात्। तस्मादिद्वतीयखण्डोत्थसौरा एवाधिमासपतनकालाच् चैत्रादि- पर्यन्तं चान्द्रा भवन्तीत्यत्राधिमासशेषदिनानि योज्यानि।तस्मादपि शेषत्याग उचित:| शोधितेषु सावनदिनगणः स्यादिति सावयवान्यवमानि शोध्यानि तिथ्यन्ते द्युगणः स्यात् ।

अपेक्षितः सूर्योदयकालिकः । तत्रास्मिस्तिथ्यन्तकालिकाहर्गणे तिथ्यन्त- सूर्योदययोरन्तरमवमशेर्ष योज्यमुदयकालिको भवतीति दिनक्षयशेषयोः शोध्य- क्षेप्ययोस्तुल्यान्नाशे शेषत्यागो युक्त इत्याह-तिथ्यन्तसूर्योदययोरिति । चान्द्रेण


१. इतः परं ख' मातृकायाः प्रारम्भो द्दश्यते ।