पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/410

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति



३६८
सिद्धान्तशिरोमणौ गोलाध्याये


तिपुरुषौ क्षोभयति । तदा तानि भूतानि कर्मपुटान्तरत्वात् प्रकृतेः स्वत एव निःसरन्ति । यथाह श्रीविष्णुपुराणे पराशरो जगदुत्पत्तिकारणम्—

   प्रधानकारणीभूता यतो वै सूज्यशक्तय इति ।

 व्सृज्यशक्तयस्तत्कर्माणि ॥ तान्येव सृष्टौ मुख्यं कारणम् ॥ इतराणि निमित्तकारणानि । अन्यरप्युक्तम् ।

नाभुक्त क्षीयते कर्म कल्पकोटिशतैरपि ।
नह्यात्मनां भवति कर्मफलोपभोग: कायाद्विनेत्यादि

 अस्मिन् प्रलयेऽखिलाया भुवो नाश इत्यर्थः । तथा ज्ञानाग्निदग्धाखिलपुण्यपापा योगिनो विषयेभ्यो मनः सामाधाय समाहृत्य तद्धरौ समाहितं कृत्वा यान्ति । देहं त्यजन्ति ॥ अनिवृत्ति यान्ति ॥ स अात्यन्तिको लय इति ॥ ६२-६५ ।

 अथ ब्रह्माण्डगोलमाह

भूभुधरत्रिदशदानवमानवाद्या ये याश्च धिष्ण्यगगनेचरचक्रकक्षाः । ।
 'लोकव्यवस्थितिरुपर्युपरि प्रदिष्टा ब्रह्माण्डभाण्डजठरे तदिदं समस्तम् ॥६६॥

 वा० भा० - स्पष्टम्। ६६ ॥

 इदानीमन्योदितं ब्रह्माण्डमानं पूर्वं कथितमपि प्रसङ्गादनुवदति स्म । v\ Na ) ܡ ܕ ܢ कोटिघ्नैर्नखनन्दषट्कनखभूभुभुडुजज्ञेन्दुभि- १८७१२०६९२०००००००० ज्योंतिश्शास्त्रविदो वदन्ति नभसः कक्षामिमां योजनैः ।

तद्ब्रह्माण्डकष्टाहसंपुष्टतटे केचिजगुर्वेष्टनं
केचित् प्रोचुरदृश्यदृश्यकगिरिं पौराणिकाः सूरयः ॥६७॥

करतलकलितामलकवदमल सकलं विदन्ति ये गोलम्।
दिनकरकरनिकरनिहततमसो नभसः स परिधिरुदितस्तैः ॥६८॥

ब्रह्माण्डमेतन्मितमस्तु नो वा कल्पे ग्रहः क्रामति योजनानि ।
यावन्ति पूर्वैरिह तत्प्रमाणं प्रोक्ततं खकक्षाख्यमिदं मतं नः ॥६९।

 वा० भा०--प्रमाणशून्यत्वात् प्रयोजनाभावाच्चास्माभिर्ब्रह्माण्डमानं न कथितमित्यर्थः ।। ६६-६९ ।। w    इति गोलभाष्ये भुवनकोशः ।


१. अत्र श्रीपतिः - ‘ब्रह्माण्डभाण्डोदरवतिकृत्स्नमेतद्यदुक्तं क्रमशो यथाऽत्र ॥ तस्यैव बाह्यः परिधिः खकक्षा विवस्वतः सा महसां च सीमा ॥

    सि० शे० १५ अ० ४१ शलो० ।।