पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/407

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३६५
भुवनकोशः

 वा० वा०-प्रकारान्तरेणाह-गोलस्य परिधि: कल्प्य इति। तत्रैकवप्रक्षेत्रफलमिति । अत्र षण्णवति वप्रका भवन्ति । वप्रकाद्धे समान्तरेण चतुर्विशतिरेखास्तिर्यक् कार्याः । ता एव जीवास्तत्त्वाश्विमुखाः कल्प्याः । वप्रकाद्धे त्रिज्या कल्पिता । तिर्यग्रेखयोरन्तरं सर्वत्र परिधिषण्णवत्यंशो रूपमितः कल्पितः । अत्र सर्वत्र रूपमिति एव लम्बः ।

 लम्बेन निघ्नं कुमुखैक्यखण्डम् ।

 इति फलमानेयम्। त्रिज्यया रूपं लभ्यते तदेष्टतत्वाश्विमुखया जीवया किमिति चतुर्विशतिजीवानां प्रत्येकं सम एव हरः कृतः । तत्र वप्रकार्द्धप्रथमशकले मुखं शूल्यं भूतत्वाश्वितुल्येति प्रथमजीवाद्धफलमागतम् । द्वितीयशकले तु प्रथमद्वितीयजीवायोगार्द्ध फलम् । योगार्द्धमर्धयोगतुल्यमिति फलद्वययोगो जातः । प्रथमसम्पूर्णजीवायुक्तद्वितीयजीवार्द्धतुल्यस्त्रिज्याहरस्योभयत्र तुल्यत्वात्। एवं तृतीयशकलादिषु पृथक् फलान्यांनीय पूर्वफलेषु संयोज्य फलयोगी ज्ञातव्यः । चतुविंशतिमितशकले त्रयोविंशति जीवाद्धयुक्तं चतुविंशतिजीवाद्धपरपर्यायं त्रिज्याद्ध भवति । इदं त्रयोविंशतिमितसकलक्षेत्रफलयोगे द्वाविंशतिसम्पूर्णजीवायोगयुक्तत्रयोविंशतिजीवाद्धमिते योजित जातं सर्वज्यैक्यं त्रिभज्यार्द्धहीनम् । अत्र प्रागुक्तयुक्तघा त्रिज्या हरोऽस्ति । इदं वप्रकार्द्धजातम् । द्विगुणं वप्रफलं स्यादिति गुणहरौ गुणेनापवत्र्यं त्रिज्यार्द्धभाजितमित्युक्तम् । वप्रफलं गोलव्याससममुत्पन्नम् । यद्वैकवप्रे गोलव्यासतुल्यं फलं तदा गोलपरिधितुल्यवप्रैः किमिति जातं परिधिव्यासघातितुल्यं गोलपृष्ठफलमित्याह-एवं वप्रफलं .तत्स्यादिति। ‘दुष्ट कन्दुकपृष्ठजालवदिला गोले फल जल्पित" मिति यदुक्त पूर्व तत्सर्व

 अत्राचार्येण यद्भूपृष्ठफलमुत्तं तल्लल्लोत्तभूपृष्ठफलदूषणार्थमेव । घनाख्यफलस्य न कोऽप्युपयोग इति तन्नोक्तम् ।

नंनु पाटीगणितेऽपि
'मुखे दशद्वादशहस्ततुल्यं विस्तारदघ्र्यं च तले तदद्धम् ।
यस्याः सखे सप्तकरश्च वेधः का खातसंख्या वद तत्र वाप्याम् ॥
इति प्रश्नस्य

  • मुखज-तलजतद्युतिजक्षेत्रफलैक्यं हृतं षड्भः ।

क्षेत्रफलं सममेवं खाते घनहस्तसंख्या स्यात्


 इत्युतरस्य क उपयोग इति चेत्। घनहस्तखातानुसारेण कर्मकारजन प्रयोजनम् । अस्यां वाप्यां कियद् घनहस्तं जलं मानमिति प्रयोजनानि बहूनि सन्ति । न तथा भूमावस्ति प्रयोजनम् । यत्र खाते विस्तारदैर्घ्यवेधाः भिन्ना एवोपलभ्यन्ते तद्विषमचतुरस्रादिखातम् । विषमचतुरस्रखाते.-


१. ली० खा० २ सू० १ उदा० ।

२. ली० खा० २-३ सू० ॥