पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/389

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

 

३४७
भुवनकोशः

श्रृङ्गोन्नतिग्रहयुतिग्रहणोदयास्तच्छायादिकं परििधना घटतेऽमुना हि ।
नान्येन तेन जगुरुतमहीप्रमाणप्रामाण्यमन्वययुजा व्यतिरेककेण ।।१६।। ।।

वा० भा०-स्पष्टम्। १५-१६ ॥ इदानी भूगोले पुरनिवेशमाह-

लङ्का कुमध्ये यमकोटिरस्याः प्राक् पश्चिमे रोमकपत्तनं च ।
अधस्ततः सिद्धपुरं सुमेरुः सौम्येऽथ याम्ये वाडवानलश्च १ ॥१७॥।।

कुवृत्तपादान्तरितानि तानि स्थानानि षड्गोलविदो वदन्ति ।
वसन्ति मेरौ सुरसिद्धसङ्घा और्वे च सर्वे नरकाः सदैत्याः ॥१८॥ ।।

यो तत्र तिष्ठत्यवनी तलस्थामात्मानमस्या उपरि स्थितं च ।
स मन्यतेऽतः कुचतुर्थसंस्था मिथश्च ये तिर्यगिवामनन्ति ।१९।। ।।

शिरस्काः कुदलान्तरस्थाश्छायामनुष्या इव नीरतीरे ।
अनाकुलास्तिर्यगधः स्थिताश्च तिष्ठन्ति ते तत्र वयं यथात्र ॥२०॥ ।।

वा० भा०- सुगमम् । १७-२० ॥

इदानों द्वीपानां समुद्राणां च स्थानमाह२भूमेरर्धं क्षारसिन्धोरुदक्स्थं जम्बूद्वीपं प्राहुराचार्यवर्याः '।
अर्धेऽन्यस्मिन् द्वीपषट्कस्य याम्ये क्षारक्षीराद्यम्बुधीनां निवेशः ।।२१।। ।।

3लवणजलधिरादौ दुग्धसिन्धुश्च तस्मादमृतममृतरश्मिः श्रीश्च यस्माद्भभूव ।
महितचरणपद्मःपद्मजन्मादिदेवैर्वसति सकलवासो वासुदेवश्च यत्र ॥२२ ।।

१. अत्र श्रीपतिः

क्षितिपरिधिचतुर्थे प्राचि लङ्कानगर्या निवसति यमकोटिः पश्चिमे रोमकञ्च । उदगमरगिरीन्द्रो दक्षिणे वाडवाग्निः क्षितिपरिधिदलेऽधः पत्तनं सिद्धपूर्वम्’ । सि० शे० १५ अ० ३० श्लो० ।।

२. अत्र श्रीपतिः ‘जम्बूद्वीपो लवणजलधेर्मध्यतो मेरुमध्यः शाकस्तस्माद्बहिरथ कुशः क्रौञ्चनामा ततश्च । शाल्मल्याख्यो भवति परितश्च.थ गोमेदसंज्ञस्तस्माद्बाह्ये मुनिमिरुदितः सप्तमः पुष्कराख्यः सि० शे० १५ अ० ३३ श्लो० ।।

३. अत्र श्रीपतिः - लवणजलधिराद्यो दुग्धसिन्धुर्द्वितीयस्तदनु दधिसमुद्रस्सर्पिरब्धिश्चतुर्थः अथ रसनिधिरिक्षोः पञ्चमोऽन्यः सुराया जलधिरथ तदन्ते ससमः स्वादुतोय:' सि० शे० १५ अ० ३२ श्लो० ।।