पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/390

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति



३४८
सिद्धान्तशिरोमणौ गोलाध्याये


दध्नो घृतस्येक्षुरसस्य तस्मान्मद्यस्य च स्वादुजलस्य चान्त्यः ।
स्वादूदकान्तर्वडवानलोऽसौ पाताललोकाः पृथिवीपुष्टानि ॥२३॥॥

चञ्चत्फणामणिगणiशुकृतप्रकाशा एतेषु सासुरगणाः फणिनो वसन्ति ।
दीव्यन्ति दिव्यरमणीरमणीयदेहैः सिद्धाश्च तत्र च लसत्कनकावभासैः ॥२४॥॥

शाकं ततः शाल्मलमत्र कौशं क्रोञ्चं च गोमेदकपुष्करे च ।
द्वयोर्द्वयोरन्तरमेकमेकं समुद्रयोद्वीपमुदाहरन्ति ॥२५॥॥

वा० भा० स्पष्टम्। २१-२५ ।

इदानी जम्बूद्वीपमध्ये गिरिनिवेशवशेन नव खण्डान्याह—

लङ्गादेशाद्धिमगिरिरुदग्हेमकूटोऽथ तस्मातू तस्माच्चान्यो निषध इति ते सिन्धुपर्यन्तदैघ्र्याः । एवं सिद्धादुदगपि पुराच्छूङ्वच्छुक्लनीला वर्षाण्येषां जगुरिह बुधा अन्तरे द्रोणिदेशान् ।।२६।।

भारतवर्षमिदं ह्युदगस्मात् किन्नरवर्षमतो हरिवर्षम् ।
सिद्धपुराच तथा कुरु तस्माद्वद्धि हिरण्मयरम्यकवर्षे ॥२७॥॥

माल्यवाश्व यमकोटिपत्तनाद्रोमकाच्च किल गन्धमादनः ।
नीलशैलनिषधावधी च तावन्तरालमनयोरिलावृतम् ॥२८॥॥

माल्यवञ्जलधिमध्यवर्तिं यत् तत् तु भद्रतुरगं जुगुर्बुधाः ।
गन्धशैलजलराशिमध्यगं केतुमालकमिलाकलाविदः ||२९||॥

निषधनीलसुगन्धसुमाल्यकैरलमिलावृतमावृतमाबभौ ।
अमरकेलिकुलायसमाकुलं रुचिरकाञ्चनचित्रमहीतलम् ॥३०॥॥

वा० भा०-अत्र भूगोलस्यार्धमुक्तरं जम्बूद्वीपम्। तस्य क्षाराब्धेश्च सन्धिनिरक्षदेशः। तत्र रोमकं सिद्धपुरं यमकोटिरिति पुरचतुष्टयं भूपरिधिचतुर्थाशान्तरं किल कथितम् । तेभ्यः पुरेभ्यो यस्यां दिशि मेरुः सोत्तरा । अतो लङ्काया उत्तरतो हिमवान् नाम गिरिः पूर्वापर

सिन्धुपर्यन्तदैध्र्योऽस्ति । तस्योत्तरे हेमकूटः । सोऽपि समुद्रपर्यन्तदैर्घ्यः । तथा तदुत्तरे निषधः । तेषामन्तरे द्रोणिदेशा वर्षसंज्ञाः । तत्रादौ भारतवर्षम् ॥ तदुत्तरम् किन्नरवर्षम् ।

१. अत्र श्रीपतिः उत्तरायतगिरिश्च माल्यवान् कीतितः स यमकोटिपत्तने । रोमके च खलु गन्धमादनो नीलशैलनिषधावधी च तौ ।

। सि० शे० १५ अ० ३८ श्लो० ।।