यदि निशाजनकः कनकाचलः किमु तदन्तरगः स न दृश्यते । |
वा० भा०--पुराणे भूः समादशदरसन्निभा कथ्यते । तन्मध्ये मेरुः। परितो जम्बूद्वीप लक्षयोजनव्यासम् । तद्बहिर्लक्षप्रमाणः क्षाराम्भोधिः ततोऽन्यद्द्वीपं लक्षद्वयम् । ततः समुद्रस्ततोऽन्यद्द्वीपम्। द्वीपाद्द्वीप द्विगुणम्। समुद्रात् समुद्रो द्विगुणः । एवं यत् ससमं पुष्करद्वीप तन्मध्ये मानसोत्तरपर्वतो वलयाकारोऽस्ति । तन्मस्तकोपरि रविरथचक्रतं लक्षयोजनान्तरे विषुवद्दिने भ्रमति। उत्तरगोले तदुतरतो दक्षिणगोले दक्षिणत इति|
अथ युक्तिरुच्यते-यदि समा भूस्तदा तदुपरि दूरगतो रविभ्रमन् किमस्मदादिभिर्न दृश्यते । सततं देवैरिव । यदि मेरुणान्तहितो रविस्तहि मेरुः कथं न दृश्यते । यदि मेरुंतटान्निःसृतस्यार्कस्योदयस्तर्हि प्राच्या उत्तरत एवार्कस्योदयेन भवितव्यम् । यतो मेरुत्तरत ॥ अथ कथं दक्षिणभाग उद्गच्छन् दृश्यते । अतो भूमेः समतायामिदं नोपपद्यत इत्यर्थः ॥ ११-१२ ॥
अथ प्रत्यक्षविरोधशङ्कां परिहरनाह
समो यतः स्यात् परिधेः शतांशः पृथ्वी च पृथ्वी नितरां तनीयान् । |
वा० भा०-स्पष्टम् ॥ १३ ॥
इदानी स्वोक्तस्य भूपरिधिप्रमाणस्योपपत्तिमाह- |
वा० भा०-निरक्षदेश: रवदेशाद्यथा यथा दक्षिणतो भवति तथा तथा खस्वस्तिकाद्विषुववृत्तं नतम् । तयोरन्तरेऽक्षांशाः ॥ ते च निरक्षदेशादपसारयोजनैरनुपातेनोत्पद्यन्ते ॥ अथ कस्मिञ्चित् पुरेऽक्षांशान् ज्ञात्वा तस्मात् पुरादुत्तरतोऽन्यस्मिन् पुरे ज्ञेयाः । ततस्तेषामन्तरांशैः पुरान्तरयोजनैश्चानुपातः ॥ यद्यन्तरांर्शः पुरान्तरयोजनानि लभ्यन्ते तदा चक्रांशैः ३६० किमिति । फलं भूपरिधियोजनानि । १४ ।
अथ तदेव दृढीकुर्वनाहनिरक्षदेशात् क्षितिषोडशांशे भवेदवन्ती गणितेन यस्मात्| |
अत्र लल्ल:-- समता यदि विद्यते भुवस्तरवस्तालनिभा बहूच्छया:। कथमेव न दृष्टिगोचरं नुरहो यान्ति सुदूरसंस्थिताः । शि० धी० गो० मिथ्या० ३६ श्लो० ।
१. अत्र लल्लः-- अमिता यदि भूरियोजना स्यात् क्षितिरह्ना परिवत्यते कथं भैः । परिधेः खलु षोडशे स्थितांशे न च लङ्काविषयाद्भवत्यवन्ती ॥ शिo धी० गो० मिथ्या० ३० श्लो० ।