पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/367

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति



श्रीगणेशाय नमः

सिद्धान्तशिरोमणिः

वासनाभाष्य-वार्तिकसहितः

गोलाध्यायः

अथ गोलाध्यायो व्याख्यायते।

बा० भा० - गोलाध्याये निजे या या अपूर्वा विषमोत्तयः ।
तास्ता बालवबोधाय संक्षेपाद्विवृणोम्यहम् ।

 गोलग्रन्थो हि सविस्तरतया प्राञ्जलः । किन्तु अत्र या या अपूर्वा नान्यैरुता उत्तयो विषमास्तास्ताः संक्षेपाद्विवृणोमि । अत्र या या इति प्रथमान्तं पदं तास्ता इति द्वितीयान्त पद बुद्धिमता व्याख्येयम् ।

 तत्रादौ तावदभीष्टदेवतानमस्कारपूर्वक गोलं ब्रवीमीत्याह

सिद्धिं साध्यमुपैति यत्स्मरणतः क्षिप्रं प्रसादात् तथा
यस्याश्चित्रपदा स्वलङ्कृतिरलं लालित्यलीलावती ।
नृत्यन्ती मुखरज्ञगेव कृतिनां स्याद्भारती भारती
तं तां च प्रणिपत्य गोलममलं बालावबोधं बुवे । १ ।।

 वा० भा०-ब्रुवे वचिम। क: । कर्ताहं भास्करः। किम्। गोल गोलाध्यायम्। किंविशि छम् । अमलं निर्दूषणम् । पुनः किभूतम् । बालावबोधम् । अविषममित्यर्थ: । कि कृत्वा । प्रणिपत्य । प्रणिपातपूर्वको नमस्कृत्य । कम् तम् । न केवलम् तम् । ता च । स कः । सा च का तदाह ॥ यस्य देवस्य स्मरणात् पुंसां साध्यमभीष्टं क्षिप्रं शीघ्रं सिध्यति । सोऽर्थाद्विघ्नराजः । तथा यस्या देव्याः प्रसादात् कृतिनां विदुषां भारती वाणी नृत्यन्ती भारतीव स्यात् । भारती नर्तकस्त्री च । कर्थभूता वाणी नर्तकी च । चित्रपदा विचित्रपदविन्यासा । स्वलङ्कृतिः शोभनालङ्कारमुद्राङ्किता । लालित्यलीलावती माधुर्यगुणसंपन्ना । कथं वाक् नृत्यन्तीति चेत् ॥ स्रवदमृतबिन्दुसन्दोहसदृशसुरससुकोमलोक्तिगुणा गद्यपद्यमयी चतुरजनमनश्चमत्कारकारिणी वाणी नृत्यन्तीव भाति । किविशिष्टा भारती । मुखरङ्गगा । मुखमेव रङ्गो मुखरङ्गः । रङ्गो नृत्यस्थानम् । यस्याः प्रसादात् कृतिना मुखेष्वेवंविधा भारती स्यात् । सार्थात् सरस्वती । ता च प्रणिपत्येति । मङ्गलादीनि मङ्गलान्तानि च शास्त्राण्यलङ्कारकृतां मतान्यतः सिद्धिवृद्धिशब्दावाद्यन्तयोनिक्षिसौ ।। १ ॥