पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/368

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३२६
सिद्धान्तशिरोमणौ गलध्या



॥ श्रीगणेशाय नमः ॥

वा० वा०--विश्वेश्वर नमस्कृत्य मल्लारि च गजाननम् ।
भास्करीयस्य गोलस्य वात्तिकं क्रियतेऽधुना ॥ १ ।।

कविज्ञमार्गादुपरि स्फुरन्तं समं व्रजन्तं कविना बुधेन । अधःस्थिति चाप्यवलम्बमानमुच्चं गुरोर्भास्करमानतोऽस्मि ॥ २ ॥

 अधुना मङ्गलाचरणपूर्वकं ग्रन्थारम्भं प्रतिजानीते--सिद्धि साध्यमुपैतीति ॥१॥

अथ गोलग्रथनकारणमाह

१मध्याद्य युसदां यदत्र गणितं तस्योपपतिं विना
औढ़ि औढसभासु नैति गणको नि:संशयो न स्वयम्।
गोले सा विमला करामलकवत् प्रत्यक्षतो दृश्यते
तस्मादस्म्युपपत्तिबोधविधये गोलप्रबन्धोद्यतः ॥ २ ॥

 वा० भा०-स्पष्टार्थम् ॥ २ ।।

 वा० वा०-सहेतुक गोलारम्भप्रयोजनमाह--मध्याद्यमिति। गणकानां ग्रहगणितोपपत्तिबोधविधानार्थं गोलप्रबन्धोद्यतोऽस्मीत्यर्थः ।

 ननु ग्रहगणितशास्त्राध्ययनेन सञ्जातसमयावबोधानां बुधानां किम् उपपत्तिज्ञानेन गोलाध्ययनाभ्याससाध्येन फलमित्यत उक्तम्--

 प्रौढिप्रौढसभासु नैति गणको नि:संशयो न स्वयमिति ।

 श्रृङ्गोन्नतौ यथा अद्य कस्यां दिशि श्रृङ्गमुन्नतमिति विचारे विचार्यदिङ्निर्णयो ग्रहगणितशास्त्रविषयः । कथं चन्द्रस्यैव शृङ्गरूपता, कथमद्य अस्यां दिश्येव शृङ्गमुन्नतमिति च विचारो गोलशास्त्रगोचरस्तथा सर्वत्र ग्रहगणितप्रतिपाद्यपदार्थाना वस्तुसिद्धाद्यनुकूलयुक्तिप्रतिपादनं गोलविषयः । पाण्डित्यं फलम्। अन्यैभ्रान्तिज्ञानेनान्यथोदितान् अर्थाश्च निराकर्तुं निःसंशयत्वञ्च फलम् । अवनि-भ-ग्रहाणां संस्थान-मान-प्रतिपादकत्वे ग्रहगणितप्रतिपाद्यपदार्थस्वरूपयुक्तिप्रतिपादको ग्रन्थविशेषो गोल इति लक्षण युक्तम्। ग्रहगणितवासनाभाष्यस्य न गोलग्रन्थता ।

 ग्रहगणितप्रतिपाद्यलम्बनादिपदार्थसाधनेतिकर्तव्यतायुक्तिप्रतिपादकत्वाल्लम्बनादिपदार्थस्वरूपयुक्तिप्रतिपादनतात्पर्याभावाच्च । यद्यपि गोले उत्तस्वरूपाणां पदार्थानां ग्रहगणितभाष्ये स्वरूपप्रतिपादनं दृश्यते, तत्प्राब्जलतया गोलेन प्रतिपादितमपि ग्रहगणितभाष्ये मन्दावबोधार्थ साधनेतिकर्तव्यताप्रतिपादनतात्पयेंणानूद्यते । एवं गोले प्रतिपादितानां पुनः प्रतिपादनमनुवाद इति । अतः एव भगणोपपत्तिभाष्ये

१. अत्र श्रीपतिः--- मध्यमानयनपूर्वकं हि यत् किञ्चिदत्र गणिते प्रकीर्तितम् । गोल एव सकल विलोक्यते। हन्त तत् करतलामलोपमम् । सि० शे० गो० १५ अ० ५ श्लो० ॥