पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/366

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३२१
पाताधिकार

भूमौ याम्योत्तरां रेखां कृत्वा तस्यां रेखायां बिन्द्वं च कृत्वा स बिन्दुः किलोतरश्चन्द्रस्यायनसन्धिः कल्पितः । अयनसन्धौ यावत् क्रान्त्यन्तरं तस्याद्यसंज्ञा पूर्वं कल्पिता । तस्याद्यस्य यावत्यः कला स्तन्मितैरङ्गुलैरयनान्तादुत्तरतोऽन्यं बिन्दुं कृत्वा तत्र रविस्वाहोरात्रवृत्तं कल्प्यम् ॥ तत्र च रवि बिम्बाधेकलोमितैरङ्गलै रविबिम्बं विलिख्य तस्माद्रविबिम्बमध्याद्दक्षिणतो मानैक्यार्धकलामितै- रङ्गलैरन्यो बिन्दुः कार्यः। तयोश्चन्द्रार्कबिम्बयोः प्रान्तौ संलग्नौ ।' (यदायनान्तमुपसर्पतश्चन्द्रस्य कालेन वृत्तं भवति । अयनान्तमनुप्रासस्य यत् तत्राहोरात्रवृत्तं भवति तत् तत्रस्थस्यैव चन्द्रस्य । ) एवं बिम्बप्रान्तक्रान्त्योः साम्यात् तत्र पातादिः । ततोऽनन्तरं यावता कालेनायनान्तं प्राप्नोति तावदाद्यं स्थित्यर्धम् । ततोऽनन्तरमयनान्तादपसर्पन् यावता कालेन तदेवाहोरात्रवृत्तं पुनः प्राप्नोति तावदन्त्यं स्थित्यर्धम् । स्थित्यर्धसाधनवासना त्रैराशिकेन । तत्रेष्टघटिकाभिश्चन्द्रार्को प्रचाल्य क्रान्त्यन्तरमन्याख्यं कृतम् । तस्याद्याख्यस्य चान्यस्य यदन्तरं तदिष्टघटिकानां सम्बन्धि क्रान्त्यन्तरं भवति । यद्यनेन क्रान्त्यन्तरेणेष्टघटिका लभ्यन्ते तदाद्योनितमानैक्यार्धतुल्येन कियत्य इति । यतश्चन्द्राहोरात्रवृत्तस्यायनान्तस्य चान्तरमाद्योनितं मानैक्यार्धं वर्ततेऽत उपपन्नमाद्यान्या- न्तरभक्ततं मानैक्यार्धाद्ययोस्तदा विवरम् ॥ इष्टघटीभिः क्षुण्णमिति सर्वं निरवद्यम् ॥१८-२०॥

      इदानी पातप्रयोजनमाह

पातस्थितिकालान्तर्मङ्गलकृत्यं न शस्यते तज्ज्ञैः ।
स्नानजपहोमदानादिकमत्रोपैति खलु वृद्धिम्।।२१।

      वा० भा० - स्पष्टम् ।।२१।

इति श्रीभास्कराचार्यविरचिते सिद्धान्तशिरोमणिवासनाभाष्ये मिताक्षरे पाताधिकारः ।     ग्रन्थसंख्या ३४० । एवमादितो ग्रन्थसंख्या ४३४५ ।।

 

॥ समासोऽयं ग्रहगणिताध्यायः ।।








१. अत्र बापूदेवः

यदायनान्तमितिप्रभृति चन्द्रस्येत्यन्तं केनचित् प्रक्षिसमिति प्रतिभाति ।

 सिम्一४१