पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/365

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३२०
सिद्धान्तशिरोमणी ग्रहगणिते

  अथ तदानयनस्योपपत्तिः । पातमध्यसाधने यदाद्यसंज्ञ क्रान्त्यन्तरं यश्चासकृत्कर्मणा स्फुटीकृता इटघटिकास्तेन ताभिश्चानुपातः । यद्याद्यतुल्येन क्रान्त्यन्तरेणेंतावत्यो घटिका लभ्यन्ते तदा मानैक्यार्धतुल्येनान्तरेण किमिति । एवं त्रैराशिकेन या लभ्यन्ते स्थित्यर्धघटिकास्ताः स्थूला जातास्तत्स्फुटीकरणार्थ तात्कालिकयोः पुनः क्रान्त्यन्तरं कृतम् । तन्मानैक्यार्धासन्नं जातम् । तेन पुनरनुपातः । यद्यनेन क्रान्त्यन्तरेणैतावत्यः स्थित्यर्धघटिका लभ्यन्ते तदा मानैक्यार्धतुल्येन किमिति । एवमसकृत् तासां घटीनां स्फुटत्वमित्युपपन्नम् ।। १५-१६ ।।  अथ स्थित्यधोंपपतिरूप श्लोकमाह

तावत् समत्वमेव क्रान्त्योर्विवरं भवेद्यावत् ।
मानैक्यार्धादूनं साम्याद्बम्बैकदेशजक्रान्त्योः ॥ १७ ।।

वा० भा०-अस्यार्थों व्याख्यात एव ।।१७।। अथ विशेषमार्यात्रयेणाह-

स्वायनसन्धाविन्दोः क्रान्तिस्तत्कालभास्करक्रान्तेः ।
ऊना तयोस्तु विवरं मानैक्यार्धाद्यदाल्पकं भवति ॥ १८ ।।
ज्ञेयं तदैव मध्यं पातस्यापक्रमान्तरं चाद्यः ।
तस्मादिष्टघटीभिः प्राक् पश्चाच्चापरौ साध्यौ ।। १९ ।।
आद्यान्यान्तरभक्तं मार्नेक्यार्धाद्ययोस्तदा विवरम् ।
इष्टघटीभिः क्षुण्णं स्थित्यर्धे स्तः पृथक् पृथकं स्पष्टे ।। २० ।।

 वा० भा० - अत्र भावाभावलक्षणे यदुप्त स्वायनसन्धाविन्दो; क्रान्तिस्तत्कालभास्करक्रान्तेरूना तदा क्रान्तिसाम्यस्याभाव इत्यस्य विशेषोऽयम् । यदोना भवति तयोः क्रान्त्योविवरं । यदि मानैक्यार्धादूनं स्यात् तदास्ति पात इत्यवगन्तव्यम् । तस्य पातस्य कदा मध्यमित्येतदर्थमाह ॥ ज्ञेयं तदैव मध्यं पातस्येति । यस्मिन् काले चन्द्रः स्वायनसन्धि प्रासस्तस्मिन्नेव काले पातमघ्यं ज्ञेयम् । तथा तयोः क्रान्त्योर्यदन्तरं स अाद्यः कल्प्यः । ततस्तस्मात् कालादग्रतः पृष्ठतश्चेष्टघटिकाभिश्चालितयोः पृथक्-पृथक् क्रान्त्यन्तरे साध्ये । तावन्यसंज्ञौ भवतः । अतोऽनन्तरं चाद्यस्यान्यस्य चान्तरेण मार्नेक्यार्धाद्ययोरन्तरमिष्टघटीगुर्ण भाज्यम् । तदेकदा स्थित्यर्धम् । एवं द्वितीयमयपरेणान्येन । अत्राप्यसकृत्कर्मानुत्तमप्यर्थाज्ज्ञायते ।  अत्रोपपत्तिः-स्वायनसन्धौ वर्तमानस्येन्दोस्तत्कालभास्करस्य च क्रान्त्यन्तरं यदि -मानैक्यार्धादूनं भवति तदा स्थित्यर्थोपपत्तिवद्बिम्बैकदेशजक्रान्त्योः साम्यात् पातः केन । निवार्यते । अस्त्येव पातः । किञ्च यस्मिन्नेव कालेऽयनान्तं प्रासश्चन्द्रस्तस्मिन्नेव काले पातमध्यम् । यतस्तस्मात् कालादग्रतः पृष्ठतश्च क्रान्त्यन्तरमधिकमधिकं भवति ॥ अथ तस्य पातस्याद्यान्तप्रतिपादनार्थ भूमी बिम्बे विलिक्योच्यते। तद्यथा। चन्द्राकों किल यदोतरगोलस्थौ तदा समायाँ