पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/364

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३१९
पाताधिकारः


यनसन्धिसाधनं विना पातस्य भावाभावे गर्तष्यत्वे व्यभिचारः स्यात् । स तु व्यभिचारो गोलाध्याये भाष्ये श्रीमताऽचायेंण स्पष्टमभिहितः । शेष भाष्ये स्पष्टम्।१०३-१४

श्रीमत्कौङ्कणवासिकेशवसुतप्राप्तावबोधाद्बुधाद्—
भट्टाचार्यसुताद्दिवाकर इति ख्याताज्जनि प्राप्तवान् । य: कृष्णस्तनयेन तस्य रचिते सद्वासनावातिके ।
सत्सिद्धान्तशिरोमणेरयमगात् पाताधिकारः स्फुटः ।
इति नृसिहकृतौ वासनावात्तिके ग्रहगणिताध्यायः ।

एवं पातमध्यमभिधायेदानीं पाताद्यन्तकालपरिज्ञानार्थमाह

मानैक्यार्ध गुणित स्पष्टघटीभिर्विभक्तमाद्यन।
लब्धघटीभिर्मध्यादादिः प्रागग्रतश्च पातान्तः ।। १५ ।।
तात्कालिकैः पृथक् पृथगाद्यं प्राग्वत् प्रसाध्य तेन भजेत् ।
मानैक्यार्धेन हता असकृत् स्थित्यर्धनाडिकाः स्पष्टाः ।। १६ ।।

 वा० भा०-एव स्पष्टा या इष्टघटिका जातास्ताभिः पातमध्यं गतं गम्यं वा । अथ ताभिर्घटिकाभिश्चक्रार्धचक्रकालिको चन्द्रार्को प्रचाल्य पातमध्यकालिको कृत्वा तथा तयोश्चन्द्रग्रहणोक्तया बिम्बे प्रसाध्ये ॥ ततो मानैवायार्धं प्रागानीताभिः स्फुटाभिर्घटीभिर्गुण्यं तेनाद्यसंज्ञेन भाज्यम् ॥ फलं घटिकादि ग्राह्यम् । ताभिर्लब्धघटिकाभिः पातमध्यकालात् पूर्वतः पातस्यादिज्ञेयः । तथा तभिरेव लब्धघटिकाभिः पातमध्यकालादग्रत: पातस्यान्तो ज्ञेयः । ताः।' स्थित्यर्धघटिका जाता इत्यर्थ: । अथ पाताद्यन्तकालिकाः पृथक् पृथक् चन्द्रार्कपाताः कार्याः । स्थित्यर्धगुणा भुक्तिः षष्टिहृता यत् फलं तेन स्वस्वफलेन पातमध्यकालिका एकत्रोना अन्यत्राधिकाः कार्या इत्यर्थः । ततस्तयोस्तात्कालिकयोश्चन्द्रार्कयोः क्रान्ती कृत्वा प्राग्वत् तयोरन्तरमाद्यसंज्ञं कल्पितम् । तेनाद्येन भजेत् । काः ॥ मानैक्यार्धेन गुणिताः स्थित्यर्धनाडिकाः । एवं स्पष्टा भवन्ति । ततस्ताभिर्घटिकाभिस्तात्कालिकीकरणादिनाऽसकृत्कमं कार्यम् ॥ यावत् स्थित्यर्धनाडिकाः

स्थिरा भवन्ति । एवं पृथक् पृथगुत्पाद्य तदिष्टकालिकैः कृतं तद्वितीयं स्फुटं स्थित्यर्धमित्यर्थः ।  अत्रोपपत्तिः---अहो यदा क्रान्तिसाम्यं तदैव पातस्तस्मात् कालात् प्रागग्रतश्च कथमवस्थानं पातस्य । तत्र क्रान्तिसाम्याभावात् ॥ क्रान्तिसाम्यं नाम पातः । तत्रोच्यते । यावती बिम्बमध्यस्य क्रान्तिर्भवति सा बिम्बाधेनोनिता सती बिम्बप्रान्तस्य पाश्चात्यस्य तावती क्रान्तिभंवति । बिम्बाधेनाधिकाग्रतो बिम्बप्रान्तस्य भवति । एवं रवेश्चन्द्रस्य च । अत्र बिम्बे पृष्ठमग्री च याम्योत्तरभावेनोच्यते । यावती रवेबिंम्बपृष्ठप्रान्तक्रान्तिस्तावती यदा चन्द्रस्याग्रप्रान्तस्य क्रान्तिभवति तदा तयोबिम्बैकदेशेन क्रान्त्योः साम्यात् पातस्यादिरिति । तदा तयोबिम्बमध्ययोर्मानैक्यार्धतुल्यमन्तरं भवति ॥ तदनन्तरं क्रमेण गच्छतोर्यदा बिम्बमध्ययोः क्रान्तिसाम्यं तदा पातमध्यम् ॥ तदनन्तरं रवेरग्रप्रान्तस्य चन्द्रपृष्ठप्रान्तस्य च यदा क्रान्तिसाम्यं तदा पातान्तः ॥ यतो यावन्मानैक्यार्धादूनं क्रान्त्यन्तरं तावत् पातोऽस्तीत्यत उत्तते स्थित्यर्धे ॥