पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/363

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३१८
सिद्धान्तशिरोमणी ग्रहगणिते



मध्यमक्रान्तिः स्पष्टा क्रान्तिर्वा स्यात् । अस्यां स्पष्टक्रान्तौ चन्द्रमध्यमतुल्यरविक्रान्तियंदा शोध्यते तदैव शरो भवति । `बहुतरभिन्नगोलशराच्चन्द्रमध्यमक्रान्तिर्यंदा शोध्यते तदैव स्पष्टक्रान्तिर्भवति चन्द्रस्य । तस्याः सूर्यमध्यमक्रान्तियोगेनैव शरो भवति । अतो वक्ष्यति--

‘तत्क्रान्त्योरेकदिशोरन्तरमैक्यं विभिन्नदिशोः' 'कार्य व्यतिपाताख्ये' इति ।

तथैव रविचन्द्रयोगोंलभेदेऽयनॅकत्वे चन्द्रमध्यमक्रान्त्यपेक्षया भिन्नगोलस्थबहुतरशरः चन्द्रमध्यमक्रान्त्यूनः चन्द्रस्पष्टक्रान्तिः स्यात् । इयं चन्द्रमध्यमक्रान्तितो भिन्नदिक्का भवति । अतो रविक्रान्त्यसमदिक्कैव जाता । अत्र सूर्यचन्द्रक्रान्त्योयोगेनैव शरो भवति । अन्यथा उत्तरो नैव भवति । अत उक्तम् 'तदन्यथा वैधृते" इति स्पष्टम् ।

 पातस्य गतगम्यज्ञानं भावाभावज्ञानं च गोलायनसन्धिवशेन । यत्र क्रान्तेरभावः स गोलसन्धिः । यत्र क्रान्तेः परमत्वं सोऽयनसन्धिः । मध्यमं गोलायनसन्धिज्ञानं सुगममेव । चन्द्रस्पष्टगोलायनज्ञानमुच्चयते । यदा  चन्द्राकों सायनमेषादौ तदा स्पष्टगोलसन्धिः कियद्भिरंशैरिति विचार्यते । तत्र गोलसन्धौ सायनचन्द्रः शून्यम् । अत्रायनांशाः पात्याः पातो योज्यः स सपातचन्द्रः स्यात् । स तु अयनांशोनितपाततुल्यो जातः । मध्यमगोलसन्धौ चन्द्रस्य स्पष्टाक्रान्तिः स्पष्टशरतुल्यैव । तत्र स्पष्टशरतुल्यस्पष्टक्रान्तेयवन्तोंऽशाः तैरंशैरेव मध्यमगोलसन्धेः स्पष्टगोलसन्धिरन्तरितः स्यात् ।  तेषामंशानां ज्ञानार्थमुपायः । अाचार्येण ब्रह्मतुल्ये पञ्चदश पञ्चदशांशानां शरखण्डानि क्रान्तिखण्डानि सुखार्थमुक्तानि । तत्र गोलसन्धौ मध्यमक्रान्तेर्भाग्यभण्डं यमाङ्गरामतुल्यम् । गोलसन्धिस्थञ्चन्द्रभुजज्यातः स्पष्टशरसाधनम् । यदि त्रिज्यातुल्यया सपातदोज्यया खभमिताः शरकलाः तदेष्टायनांशोनितपातदोज्यया किमिति यल्लब्धं राशित्रययुतग्रहयुज्यया गुणनीयं त्रिज्यया भाज्यं स्पष्टशर: स्यात्। अत्र त्रिज्या खार्कमिता धृता । द्युज्या तु नवाधिकं शतम् । शरभोग्यखण्डसाधनार्थमनुपातः । त्रिज्यातुल्यया सपातकोटिज्यया खाश्वमितं भोग्यखण्डं तदेष्टायनांशोनितपातकोटिज्यया किमिति गुणहरयोर्दशभिरपवतें कृते यनिष्पद्यते तेन मृगकर्कादिस्थितेऽयनांशोनितपाते द्विषड्रामाः युतविहीनाः सन्तः स्पष्टक्रान्तिखण्डकं भवति । मृगकर्कादिवशेनैव खण्डकानामुपचय इति मृगकर्कादिस्थित इत्युक्तम् । ततोऽनुपातः । यद्यनेन स्पष्टक्रान्तिखण्डकेन पञ्चदशांशा लभ्यन्ते तदा पूर्वोत्तस्पष्टशरखण्डकेन किमिति। स्पष्टशर: पञ्चदशभिर्गुणनीयः । स्पष्टशरानयने खार्कवर्गों हर: नवाधिक शतं गुण: खभतुल्योऽप्यन्यो गुणः पञ्चदशतुल्योऽप्ययं गुणोऽयनांशहीनपातदोज्यायाः । अतो गुणहरौ हरचतुर्थाशेनापवत्र्य हरस्थाने चत्वार: गुणस्थाने गुणसूर्या: शेष स्पष्टम् । स्पष्टगोला


१. वहुज्वर इति ग पु० ।