पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/335

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२९०
सिद्धान्तशिरोमणौ ग्रहगणिते

माणे शङ्कतलादग्रा विशुद्धा तदा याम्यो भुजो भवति । एवं सममण्डलप्रवेशादनन्तरं भवति । अथ यदा दक्षिणाग्रा। तदा शङ्कतलमपि दक्षिणम् । तयोयोंगे कृते समसूत्रशङ्क्वोरन्तरालं भुजो भवति । एवमधोमुखशङ्कोरुत्तरगोलेऽप्राशङ्कृतलयोर्योगे भवति । यतस्तत्रोत्तरं शङ्कतलम् ॥ दक्षिणगोले त्वन्तरे कृते । एवं चन्द्रार्कयोर्भुजी । अथ ताभ्यां स्फुटो भुजः। स्फुटी भुजो नाम चन्द्राकयोर्याम्योत्तरमन्तरम् । तच्च तयोर्भुजयोरेकदिशोरन्तरे भिन्नदिशोयोंगे कृते भवति । तद्यथा । चन्द्रस्योत्तरो भुजः किल चत्वारिशदधिकं शतम् १४० ॥ रवेस्तु नवतिः &० कला उत्तरः ॥ शशिभुजाद्रविभुजे तुल्यदिक्काच्छोधिते पञ्चाशत् कला ५० उत्तरो भुजोऽवशिष्यते ॥ एवं दक्षिणयोर्भुजयोः शशिभुजशेषं दक्षिणो भुजः । यदा तु रविभुजाच्छशिभुजः शुद्ध उत्तरदिक्त्वे तदा प्राच्यपरसूत्रादुत्तरतश्चन्द्रशङ्कः किल पञ्चाशत्कलान्तरे ५० । रविशङ्कस्तु नवति ९० कलान्तरे । तदा रविशङ्कोः कलाश्चत्वारिंशत् ४० । दक्षिणतश्चन्द्रशङ्करित्यर्थोद्गम्यते । एवं भुजो जातः ।३-३३।

इदानों कोटिमाह-
योऽधो नरो दिनकृतः स विधोरुदग्रशङ्क्वन्वितो मम मता खलु सैव कोटिः॥४॥

 वा० भा०-यो रवेरधः शङ्करसौ विधोरूध्र्वशङ्कना युतः सैव कोटिर्मम मता ॥ मम मतेति साकाङ्क्षत्वाद्ब्रह्मगुसेनेत उपरि बहुनायासेनान्या कोटिरानीता सा मम न सम्मतेति सूचितम् ।

 अत्रोपपत्तिः--इहार्केन्द्वोर्याम्योत्तरभावेन यदन्तरं स भुजः । ऊध्वधरभावेन यदन्तरं सा कोटिः । सा चैवं भवति । उदयेऽस्ते वा यदि शृङ्गोन्नतिस्तदा रविशङ्कोरभावाच्छशिशङ्करेव कोटिः । यदा निशि रवेरधः शङ्कस्तदा स शङ्कविधोरुदग्रशङ्कना युतो यावांस्तावत् तयोर्यत्र तत्रस्थयोरूर्ध्वाधरमन्तरं सैव कोटैिरुचिता । यतो द्रष्ट्रा पुरुषेणात्मनोऽवस्थानवशेन शशिनः श्रृङ्गमुन्नतमवलोक्यम् । अतः स्वावस्थानसमसूत्रादूध्र्वरूपिण्या कोटया भवितव्यम् । भुजकोटिकर्णकृतं त्र्यस्रं दृष्टेरग्रत अादर्शवत् सम्मुखं यथा भवति तथा कल्प्यिम् । तत् क्षेत्रं ब्रह्मगुसेन रवीन्द्वोरन्तरार्धज्यां द्विगुणां कर्ण प्रकल्प्य तद्भुजवर्गान्तरपद कोटिरिति' यत् त्र्यस्र प्रकल्पित तत् तिरश्चीनं जातम् । नहि द्रष्टुर्दूष्टिसम्मुखमादर्शवत् । न तेन सम्यक् श्रृङ्गोन्नतिरिति मम भतम ।४ ।।

अथ दिग्वलनार्थमाह-
दोःकोटिवर्गैक्यपदं श्रुतिः स्याद्भुजो रसः ६ घ्नः श्रवणेन भक्तः ।
 प्रजायते दिग्वलनं हिमांशोः शुङ्गोन्नतौ तत् स्फुटबाहुदिकम् ॥५॥

 वा० भा०- भुजकोटच्योर्वर्गयोगपदं कर्णः ॥ अथ भुजः षड्गुणः कर्णेन भक्तः फलं वलनम् । स्फुटबाहोर्या दिक् सा तस्य वलनस्य शेया ।


१. ब्रह्मगुसः--

व्यकॅन्द्वर्धभुजज्या द्विगुणार्केन्द्वन्तरं भवति कर्ण:|
तद्वर्गान्तरपदमिदमिन्दुभुजाग्रान्तरं कोटि: ।