पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/336

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२९१
श्रृङ्गोन्नत्यधिकारः

  अत्रोपपत्तिः— कर्णानयने गणितोक्तैव । भुजकोटिकर्णेः श्रृङ्गोन्नतेस्तावत् परिलेखः क्रियते ॥ इह तु चन्द्रबिम्बव्यासार्धं षडङ्गुलं कर्णं प्रकल्प्य तत्परिणतस्य च भुजस्य वलनसंज्ञा कृता ॥ अथ तत्परिणामायानुपातः । यद्यनन्तरानीतेन कर्णेन भुजो लभ्यते तदा षडङ्गलेन किमिति । फल चन्द्रबिम्बे वलनमित्युपनन्नम् । ५ ।

 अथ चन्द्रस्य परिलेखसूत्रानयनयोग्यतां कतु संस्कारविशेषमाह-
चन्द्रस्य योजनमयश्रवणेन निघ्नो व्यकेन्दुदोर्गुण इनश्रवणेन भक्तः । तत्कार्मुकेण सहितः खलु शुक्रपक्षे कृष्णेऽमुना विरहितः शशभृद्विधेयः ॥६॥

  बा० भा०-श्रृंङ्गोन्नतिकालिक चन्द्र रविणा रहित कृत्वा तस्य दोज्या चन्द्रस्य योजनकर्णन गुण्या रवियोजनकर्णन भाज्या यत् फल तस्य धनुषा शुक्लपक्षे शशी युक्त: कार्य: कृष्णे रहितः । एवं परिलेखसूत्रसाधनयोग्यश्चन्द्रो भवति ।

 अत्रोपपति:-परिलेखसूत्र हि शुक्लवशेन । शुक्लस्योपचयो व्यकेंन्दोरुपचयवशेन । तद्यथा । बिम्बार्धं षडङ्गलं प्रकल्प्योच्यते । यदा व्यकन्दुः पञ्चदश १५ भागास्तदाङ्गलं १ शुक्लम् । यदा त्रिंशत्र ३० तदाङ्गलद्वयम् । एवं यदा नवतिः ९० भागास्तदाजूलषदकं ६ शुक्लम् । एवं बहुभिराचार्येः शुक्लमानीतम्। तदसदिव प्रतिभाति। यदा तु पादोनषदकाट ८५।।४५ लवा व्यकेंन्दुस्तदेव बिम्बार्ध शुक्ल भवितुमहति । यथोक्त गोले वासनाध्याये‌-

कक्षाचतुर्थ तरणेहिं चन्द्रकर्णान्तरे तियगिनों यतोऽब्जात्'।
पादोनषट्काटलवान्तरेऽतो दल नूदृश्यस्य दलस्य शुक्लम् ।

 चन्द्राकोयोयोजनकणो केनचिदिप्टेनापवर्तनेनापवत्र्य भित्तेरुत्तरपाश्र्वे भूसंज्ञ बिन्दु कृत्वा . ततः स्वस्वकणेंन कर्कटकेन तयोः कक्षे विलिस्य भगणांशाड्रितेच कृत्वा तयोर्मध्ये तिर्यग्रेखामूध्र्वरेखा च कुर्यात् । कक्षारेखासम्पातयोरन्तरे नवतिर्नवतिर्भागा भवन्ति । अथ भूबिन्दोरुपरि चन्द्रकक्षोध्वरेखासम्पाते चन्द्रबिम्बं विलिख्य तन्मध्येऽन्या तिर्यग्रेखा कार्या । तस्याश्चन्द्ररेखाया रविकक्षायाश्च यौ सम्पाती तावधस्तिर्यग्रेखाया उपरि सपादभागचतुष्टये भवतः । यदा तत्रस्थी रविस्तदा चन्द्रात् तिर्यग्भवति । तत्र यदा पश्चिमसम्पातस्थस्तदा गोलकाकारस्य चन्द्रस्योध्वरेखायाः पश्चिम चन्द्रस्यार्ध शुक्लम् भवति। अतो मनुष्यदृश्यस्याधोदलस्य दल शुक्ल भवितुमहंतीति ।

 अथ तड्रागचतुष्ट्यं सपादं नवतेर्यावद्विशोध्यते तावत् पादोनषट्काटलवा अवशिष्यन्ते । तावांस्तदा व्यकॅन्डुः । तावति व्यकॅन्दी पूर्वानयनेनाडूलषट्र्क ६ नायाति । अतस्तत्र चन्द्रे भागचतुष्टयं सपादं ४॥१५ क्षेप्यम् अवान्तरे तद्वश दनुपातेन यद्भवति तत् क्षिप्यते । अथानुपातः कथ्यते । यदि रवियोजनकर्णस्य त्रिज्यामिताः कला भवन्ति तदा चन्द्राधःस्थस्य चन्द्रयोजनमितस्य रविकर्णखण्डस्य कियत्य इति । एवं या लभ्यन्ते कलास्ता ज्यारूपाः । अथ द्वितीयोऽनुपातः । यदि त्रिज्यातुल्यया व्यर्केन्दुदोज्र्ययैताः कला लभ्यन्ते तदाभीष्टया किमिति । अत्र पूर्वानुपाते त्रिज्या गुण इदानों हरोऽतस्तयोस्तुल्यत्वान्नाशे कृते चन्द्रकणों गुणो रविकणों हर इत्युपपन्नमत उक्तम्ः चन्द्रस्य योजनमयश्रवणेन निघ्न इत्यादि । अथ तासां कलानां धनुषा


१. सि० शि० गो० श्रृं० ३ श्लो० । ।