घच्मि युक्तिमिहेति । अत्र रविग्रहेऽर्कचन्द्रयोर्याम्योत्तरमन्तरम् । अथ यदा दृङ्ण्डलगत्याधोलम्बितश्चन्द्रस्तदा तस्य चन्द्रस्य रविकक्षया सह यावदन्तरं तच्चिन्द्रार्कयोर्याम्योत्तरमन्तरं स स्फुटविक्षेप इत्यर्थ:। तस्य पूर्वविक्षेपेण सह यदन्तरं तावती नतिरित्यर्थ:। इति किल रविग्रहे नतिस्वरूपम्।
अथ युतिरुच्यते । यत्र देशे चतुविंशतिरक्षांशाः । यदा किलाकीं राशिषष्ट्र्क तावांश्च चन्द्रस्तावांश्च पातः शशिशरः शून्यम् । तदा तस्मिन् देशे रवेरुदयकाले रविरेव लग्नम् रविः चन्द्रः पातः लग्नम्
वित्रिभम्त द्वित्रिभलग्नं राशित्रयं भवति ॥ ६ ६ ६ ६ ३ तस्य क्रान्तिरुत्तरा चतु
O Ο O Ο O
विशतिर्भागास्तैरक्षे संस्कृते नतशिानामभावः । अतो वित्रिभलग्न खस्वस्तिके प्राक्स्वस्तिके रविः । सममण्डलमेव तदा क्रान्तिमण्डलम् । तदेव दृङ्मण्डलम् । दृङमण्डलगत्याधोलम्बितश्चन्द्रस्तत्कक्षामण्डलं न त्यजति ॥ अतोऽत्र स्फुटविक्षेपोऽपि शुन्यम् ॥ अतोऽत्र नतेरभावः । वित्रिभलग्नशरसंस्कारेणात्र कलाचतुष्टयं नतिरुत्पद्यते सा व्यर्था ।
यद्ब्रह्मगुसेन विमण्डलमेव कक्षामण्डलं परिकल्प्य नतिरानीता सापि युक्तियुक्ता । किन्तु सा विमण्डलावधिरायाता न कक्षामण्डलावधिः । अतो लम्बनकालेन चालितस्य विधोर्यावान् विक्षेपो यावांश्च प्रथमस्तयोरन्तरं तस्या नतेव्यंस्तं कार्यम् । रविदृक्क्षेपधनुषि यदि वित्रिभलग्नशरो युक्तस्तदेदमन्तरं नतेः शोध्यम् । यदा रहितस्तदा युक्तं कार्यमित्यर्थः । एवं कृते सति सा नतिः स्फुटा भवितुमर्हति ॥ अथवा रविदृक्क्षेपधनुश्चन्द्रशरेण संस्कृतं कृत्वा नतिः साध्यते सापि स्फुटासन्ना भवति । किन्तु ग्रहणे चन्द्रशरोऽल्पो भवति । संस्कारे कृतेऽपि स्वल्पान्तरा नतिः ॥ अत एवाद्यैराचार्येः स्वल्पान्तरत्वादिदं कर्मोपेक्षितमिति मम मतम् ॥ अथवा कि जगद्विरोधेन यत् तेन कृतं तदपि युनकम् ॥
लम्बनकालशरान्तरमस्यां व्यस्त नती यदि क्रियते । |
इति सिद्धान्तशिरोमणिवासनाभाष्ये मिताक्षरे सूर्यग्रहणाधिकारः ॥
ग्रन्थसंख्या ३२५ ।।