पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/318

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२७३
सूर्यग्रहणाधिकारः

 वा० भा०-अत्र रविग्रहणे बिम्बवलनभुजकोटघादीनामानयन शशाङ्कग्रहणोत वेदितव्यम् । कित्वत्र भुजसाधने विशेषः । अत्र पूर्वानयनेन यो भुज अगच्छति । असौ तत्कालस्फुटशरजनितेन स्थित्यर्धन गुण्यः स्फुटेन स्थितिखण्डकेन भाज्यः । स्पर्शमध्यकालयोरन्तरेण भाज्य इत्यर्थः । फलं स्फुटो भुजो भवति ॥

 अथ ग्रासाच्च कालानयने फल यदिति ।

 ग्रासोनमानैक्यदलस्य वर्गाद्विक्षेपकृत्या रहितात् पर्द यत् ।

 गत्यन्तर्राशैविहृतमिति

 यत् फलं लभ्यते तस्य स्फुटीकरणम् ।तत् फलं स्फुटेन स्थित्यर्धन स्पर्शमध्यकालयोरन्तरेण गुणितं तत्कालस्फुटशरजनितेन स्थित्यर्धेन भक्ततं स्फुटं भवति । तत् स्वस्थित्यर्धाच्छुद्धमिष्टकालो भवति । स च स्पशदिग्रतो मोक्षात् पृष्ठतः ॥ तस्मिन् काले नतिसंस्कृतं शरं पुनः कृत्वा ‘ग्रासोनमानैक्यदलस्य वर्गाद्विक्षेपकृत्येत्यादिना फलं साध्यम् । तत् फलं पुनः स्फुटं कर्तव्यम् । एवं यावदिष्टकालः स्फुटो भवति तावदसकृत्कर्म ।

 अत्रोपपत्तिः-भुजानयने पूर्वोक्तैव ॥तत्स्फुटीकरणे प्रोच्यते । यथा चन्द्रग्रहणे स्थित्यर्धं शरमानैक्यार्धयोर्वगान्तरादुद्भूतं तथेहाप्यानीतम्। तदस्फुटम् । लम्बनसंस्कारे कृते स्पर्शमध्यग्रहकालयोरन्तरं तत् स्फुर्ट स्थित्यर्धम् । लम्बनान्तरसंस्कृतमित्यर्थ: । भुजो हि स्थित्यर्धसम्बन्धेनागच्छति । यथा चन्द्रग्रहे मध्यममेव स्थित्यर्धम् । तत्सम्बन्धेन यादृशो भुजस्तत्रागच्छति तादृशेनेहापि भवितव्यम् । वासनायास्तुल्यत्वात् । अथ च वीष्टेन निघ्नाः स्थितिखण्डकेनेत्येवं यदानीप्रते तदा स्फुटस्थित्यर्धं वीष्टं कृत्वा गणक आनयति तदा स्फुटस्थित्यर्धसम्बन्धी भुजः स्यात् । असावसम्यक् । अतस्तस्य तत्कालस्फुटशरजनितस्थित्यर्धसम्बन्धीकरणायानुपातः । यदि स्फुटस्थित्यधेनैतावान् भुजस्तदा तत्कालजनितस्फुटशरभवस्थित्यर्धन किमिति । फलं स्फुटो भुजो भवति । एतदेव विपरीत कर्म ग्रासात् कालानयने । यतो ग्रासोनमानैक्यदलस्य वर्गादित्यादिना यत् फलमागच्छति तन्मध्यमं स्थित्यर्धं वीष्टम् । तत् स्फुटस्थित्यर्धाद्यावद्विशोध्यते तावदसम्यगिष्टं भवति ॥ अतस्तस्य फल`य स्फुटस्थित्यर्धपरिणामायानुपातः । यदि मध्यमस्थित्यर्धेनैतावत् फलं तदा स्फुटस्थित्यर्धेन कियदिति । अत्र यल्लभ्यते स्फुटं फलं तस्मिन् स्फुटस्थित्यर्धाच्छोधिते स्फुटमिष्टमवशिष्यत इत्यर्थ: ।

 इदानीं चाद्योक्तद्वारेण विशेषोऽभिधीयते व्याख्यायते च----

शशिदृक्क्षेपार्थं यद्वित्रिभलग्नेषुणात्र संस्करणम् ।
जिष्णुजमतं तदुक्ततं न मन्मतं वच्मि युक्तिमिह ॥ १॥
यत्राक्षोजिनभागास्तत्राकेंन्दू तुलादिगावुदये।
पातः किल गृहषट्कं सममण्डलवत् तदापवृत्तं स्यात् ॥२॥
अकल्लिम्बितचन्द्रो न जहात्यपमण्डलं ह्यविक्षिसः ॥
वित्रिभशप्रसंस्कारान्नतिरत्रायाति सा व्यथा ।३।

 अत्र रविदृक्क्षेपधनुवित्रिभग्नोत्थशरेण संस्कृतं शशिदृक्क्षेपधनुर्भवतीति यदुक्त' तद्ब्रह्म गुसस्य मतं न मन्मतम् । तदयुक्तमिव प्रतिभातीति भावः । तत् कथमयुक्तमिति तदर्थमाह । सि० -३५