सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/320

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२७५
अथ ग्रहच्छायाधिकारः

अथ ग्रहच्छायाधिकारो व्याख्यायते । तत्रादौ तावद्प्रहविक्षेपान् मध्यमानाह---

विक्षेपलिप्ताः क्षितिजादिकानां
खेशा ११० द्विबाणेन्दुमिता १५२ रसाश्वाः ७६ ।।
षट्त्रीन्दवः १३६ खाग्निभुवः १३० सितज्ञ-
पातौ स्फुटौ स्तश्चलकेन्द्रयुक्तौ ।।१।।

 वा० भा०-क्षितिजस्य खरुद्रमिता ११० मध्यमा विक्षेपलिसाः । बुधस्य द्विबाणेन्दुमिता. १५२ । गुरोः षट्ससतिः ७६ । शुक्रस्य षड्विश्व १३६ तुल्याः । शनेः खत्रीन्दु १३० मिता वेदितव्याः । तथा बुधशुक्रयोयों गणितागतौ पातौ तौ स्वस्वशीघ्रकेन्द्वेण युक्ती कायों एवं स्फुटौ स्तः ।

 अत्रोपपत्तिः -मध्यमगतिवासनायां वेधप्रकारेण वेधवलये ग्रहविक्षेपोपपत्तिर्दशितैव ॥ कित्वन्त्यफलज्यार्धधनुषा सत्रिगृहेण तुल्यं यदा शीघ्रकेन्द्रं भवति तदा त्रिज्यातुल्यः शीघ्रकणों भवति । तस्मिन् दिने वेधवलये यावान् परमो विक्षेप उपलभ्यते तावान् ग्रहस्य परमो मध्यमविक्षपः ॥ एवमेते भौमादीनामुपलब्धाः पठि६ाः ॥ अथ ज्ञशुक्रयोः पातस्य स्फुटत्वमुच्यते ॥ भगणाध्याये ये बुधशुक्रयोः पातभगणाः पठितास्ते स्वशीघ्रकेन्द्रभगणैरधिकाः सन्तो वास्तवा भवन्ति । ये पठितास्ते स्वल्पाः कर्मलाघवेन सुखार्थम् ॥ अतः पठितचक्रभवौ स्वशीघ्रकेन्द्रयुतौ वास्तवभगणनिष्पन्नौ स्फुटौ भवतः ॥ तथा चोक्तं गोले 'ये चात्र पातभगणाः पठिता ज्ञभृग्वोस्ते शीघ्रकेन्द्रभगणैरित्यादि ॥१॥

 इदानीं

 ग्क्नयनमाहमन्दस्फुटात् खेचरतः स्वपातयुक्ताद्भुजज्या पठितेषु निघ्नी ।

 स्वशीघ्रकर्णेन हृता शरः स्यात् सपातमन्दस्फुटगोलदिकः ।।२।।

 वा० भा०-मन्दस्फुटाद् ग्रहात् स्वपातयुताद्भुजज्या साध्या । सा ग्रहस्य पठितेन शरेण गुण्या स्वशीघ्रकर्णेन भाज्या । फलं स्फुटविक्षपः स्यात् । सपातो मन्दस्फुटो ग्रहो यदि राशिषट्कादूनस्तदोत्तरो विक्षपोऽन्यथा दक्षिणः ॥

 अत्रोपपत्तिः-मन्दस्फुटो ग्रहः स्वशीघ्रप्रतिमण्डले भ्रमति । तत्र च तस्य पातोऽपि ॥ पातो नाम प्रतिमण्डलविमण्डलयोः संपातः । तस्मादारभ्य विक्षपप्रवृत्तिः । इह सुसरलवंशशलाकया कक्षामण्डलं तत्प्रतिमण्डलं च छेद्यकोत्तविधिना विरचथ्य तत्र शीघ्रप्रतिमण्डले मेषादेः प्रतिलोमं पातस्थानं च चिह्नयित्वा तत्र विमण्डलं निवेश्यम् ॥ पातचिह्वाद्राशिष-