पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/253

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०८
सिद्धान्तशिरोमणौ ग्रहगणिते

 अस्योपपत्तिर्मध्यमाहरणबीजेन । यदा त्रिशदङगुल: कर्णः । यत्र त्र्यङ्गुलो ३ याम्यो भुजः । षट्कृतगजैस्तुल्या ८४६ क्रान्तिज्या ॥ तत्र तावदुच्यते पलभाप्रमाणं यावत्त्वत् १ ॥ इयं याम्येन भुजेन युता जाता कर्णबृत्ताग्रा या १ रू ३ । अथ प्रकारान्तरेण कर्णवृत्ताग्रा ।


 एवं भुजवर्गस्य लघुवेदेन्द्रान्तरतोऽधिकत्वे द्वादशवर्गर्भुजवर्गयोरपि प्रत्येक लघुतोऽधिकत्वे चोदाहरणम् ।

  रुद्राङ्गलोऽस्त्युदग्बाहुर्भाकर्णोऽङ्गानलाङ्गलः ।
  क्रान्तैिज्याक्षश्शराङ्काश्च यत्र तत्राक्षमाँ वद ।। १० ।।

 न्यासः । उक्तवत् सिद्धो लघुः १०० अाद्यः `** परः ३६ तदाद्योनात् परवर्गादित्या- दिना सिद्धा सौम्ये भुजेऽपि द्विविधा पलभा ०.। ५८ । ३ । वा ७१ । १ ।। ५७ ।

 अथान्यदुदाहरणम् ।

  क्रान्तिज्यका वेदरसाद्रितुल्या विश्वाङ्गलः सौम्यभुजश्च यत्र ॥
  छायाश्रुतौ पञ्चयुगाङ्गलायाँ तत्राक्षभा स्यात् कियती वद द्राक् ॥ ११ ॥

 न्यासः । उक्तवत् सिद्धो लघुः १०० आद्यः **** परः ६ं तदाद्योनातू परवर्गादित्यादिना सिद्धा सौम्ये भुजे:पि द्विविधा पलभा २ ॥ ४४ ॥ ३२ । वा ८२ । २० ॥ ५५ ॥

 यतु केनचित् ।

  परस्य वर्गोऽभ्यधिको यदाद्यात् तदन्तरोत्थेन तदा पदेन ।
  परो युतोनः पलभा द्विधैवं भुजे यमाशे सुधियात्र वेद्या ॥

 इति पद्यं निबध्य मूले प्रक्षिसं तदसदर्थकमिति प्रतिभाति । यतो यत्राङ्ग शक्रन्दुमितेत्यादि प्रथमोदाहरणे परवर्गास्याद्याधिकत्वे भुजस्य च यमाशत्वेऽपि तदन्तरोत्थेनेत्यादिप्रकारेण ये पलभामाने $3।।३४।३४ आगच्छत: प्रत्येक ताभ्यां त्रिभज्याहृताकाग्रकेत्यादिना साधित भुज- द्वयं ई।३३।.. एवं विधं भिन्नमायाति । न प्रत्येकमुदाहृतभुजसमम् । आचायोंतप्रकारेणानी- तायाः पलभायास्तु ६ । १७ । २७ त्रिभञ्याहृतार्काग्रकेत्यादिनानीतो भुजः पञ्चाङ्गल एव भवतीति संशोधकोत्तमेव समीचीनमिति सर्वं निरवद्यम् ।

 एवं तदा यदास्युरित्यादि बापूदेवोक्तविशेषस्य श्रीम० देवोक्तो विशेषः ।

  यदा वेदाब्धिभूतुल्यो लघुः स्यादाद्यखण्डतः ।
  परेणास्रमिताक्षाभा ह्यनन्ता त्वपरा तदा ।

 अत्रोदाहरणम् ।

  क्रान्तिज्यका षडघुगरुद्रतुल्या छायाश्रुतिः षड्गुणसंमिता च ।
  वस्वङ्गले याम्यभुजे प्रदृष्टा तत्राक्षभां बूहि विचार्य विद्वन्।

 न्यासः । उक्तवत् सिद्धो लघुः १४४ आद्यः ११५२० परः ।। ११५२ आद्यखण्डतः परे- णाप्तमितेत्यादिना सिद्धा याम्ये भुजेऽपि द्विविधा पलभा ५॥०॥०। वा अनन्ता ।

 अन्यदुदाहरणम् ।

  तिथ्यङ्गलोस्त्युदग्बाहुर्वेदाशुगमिता श्रुतिः ।
  युगाङ्गागमिता क्रान्तिज्यका तत्राक्षभां वद ॥