पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/252

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०७
त्रिप्रशनाधिकारः

वा० भा०-क्रान्तिज्योद्दिष्टच्छायाकणेंन गुण्या त्रिज्यया भाज्या । फलस्य वर्गी लघु- संज्ञः पृथगनष्टः स्थाप्यः ॥ स लघुर्भुजवर्गेणोनोवेदेन्द्वै १४४ गुण्यः । स आाद्यसंज्ञः स्यात् ॥ अथ भूजी वेदेन्द्रे १४४ गुंणतोऽन्यसंज्ञः स्यात् । तावाद्यान्यौ तस्य लघोर्वेदेन्द्राणां १४४ चान्तरेणा- पवत्र्यो । ततोऽन्यवर्गादाद्येन युताद्यन्मूल तदुतरे भुजे सति परेण युत याम्ये वजित पलभा भवतीति सूत्रार्थः ॥


  परवर्गाद्यन्मूलं तेन युतोनः परोऽक्षभा द्विविधा ।
  लघुतोऽधिकेऽत्र बाहोर्वर्गे साध्यो विलोमशुद्धयाद्यः ॥ ४ ॥

अत्र प्रथमं द्वादशवर्गलघुभुजवर्गाणामुत्तरोत्तरमल्पत्वे तावदुदाहरणम् ।

  यत्राङ्गशक्रेन्दुमितापमज्या छायाश्रुतिः खाग्निमिताङ्गला च ।
  पञ्चाङ्गुले याम्यद्भुजे प्रदृष्टा तत्राक्षभां तूर्णमवेहि धीमन् ॥ ५ ।।

न्यासः । अत्र क्रान्तिज्याकर्णवधादित्यादिना जातो लघुः १०० अाद्यः २३° अन्यः परवर्गतो यदाद्याढथादित्यादिकरणेन सिद्धा पलभा ६। १७ । २७ ॥ अथार्कवर्गलघुभुजवर्गाणामुत्तरोत्तरमधिकत्व उदाहरणम् ।

  रसाब्धिरुद्वैः प्रमितापमज्या छायाश्रुतिर्नेत्रयुगाङ्गला च ।
  सौम्ये भुजे पञ्चदशाङ्गले स्याद्यत्राक्षमां तत्र वदाशु मित्र ॥ ६ ।।

न्यासः । उतप्रकारेण लघु: १९६ अस्माद्बाहुवर्ग:स्याधिकत्वादत्र विलोमशुद्ध्या साधित आद्यः '६४ पर: परवर्गेण तदाढघादित्यादिना सौम्यभुजे जाता पलभा० ॥ ५७॥२०॥  अथान्यदुदाहरणम् ।

  व्नगसुरेन्दुमितापमशिञ्जिनी तिथिमिताङ्गलको यमदिग्भुजः ।
  रसगुणाङ्गलसम्मितमाश्रुतिर्यदि तदा पैलभां वद सत्वरम् ॥ ७ ।।

 न्यासः । उत्तप्रकारेण लघु: १९६ अस्मादुबाहुवर्गास्याधिकत्वादत्र विलोमशुद्धया साधित आद्यः '$š* परः ':' परवगैण तदाढयादित्यादिना याम्यभुजे जाता पलभा ८४॥१॥५७

 अथ भुजवगंस्य लघुवेदेन्द्रान्तरतोऽधिकत्वे द्वादशवर्गीभुजवर्गीयोः प्रत्येक लघुतोऽल्पत्वे चोदाहरणम् ।

  ससदेवकुमितापमज्यका षङ्गुणाजूलमिता च भाश्रुतिः ।
  याम्यदोषि भुजगाङ्गले भवेद्यत्र तत्र पलभां वदाशु मे ॥ ८ ॥
 न्यासः । उक्तवत् करणेन सिद्धो लघुः १९६ आद्यः `** परः ६६* तदाद्योनात् पर-
वर्गादित्यादिना सिद्धाक्षभा द्विविधा ३३ ॥ २० ।। ४४ । वा १० ॥ ५७ ॥ ४४ ॥
 अथान्यदुदाहरणम् ।
  यदि च भाश्रवणे त्रिरसाङ्गले युगरसाद्रिमितापममौविंका ।
  यमभुजश्व गुणेन्दुमिताङ्गलो वद तदा पलभां गणकाशु मे।। ९।

 न्यासः । उक्तवत् करणेन सिद्धौ लघुः १९६ आद्यः ६ुः परः ३६ तदाद्योनात् परवर्गा- दित्यादिना सिद्धाक्षभा द्विविधा ७० ॥ ५६ ॥ ४६ । वा १ । ३ ।। १४।।