पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/217

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७२
सिद्धान्तशिरोमणौ ग्रहगणिते


दोःकोटिवर्गैक्यपदं श्रुतिः स्यात् तत्कोटिवर्गान्तरतः पदं दोः ।
दोःकणंवर्गान्तरश्व कोटिद्वाभ्यां तृतीया यदि वा स्युरेवम् ॥२८॥

इदानीमुपसंहारश्लोकमाह

त्रिषष्टिरत्रानयनप्रभेदास्तावत् स्युरेवं पललम्बमौव्योंः ।
अग्रादिकानां शतशः प्रभेदैर्लम्बादयोऽपि स्युरनन्तभेदाः ॥२९॥

वा० भा०-बहुप्रकारप्रतिपादनार्थमिदम्। २७-२९ ।

इति लम्बाक्षज्याग्रादिभेदप्रकरणम्।

 वा० वा०-त्रिषष्टिरत्रानयनप्रभेदा' इति। अत्र सर्वत्र भागहारराशि

प्रमाणं प्रकल्प्य गुण्यगुणकौ यथासंभवमिच्छाफले प्रकल्प्य च त्रैराशिकमूह्यम् ।

'त्रिज्ये पृथक्कोटिभुजाहते ते कणोंद्धत' इत्यनेन सप्तधा अक्षज्या लम्बज्या

तावत्सिद्धा । केवलत्रिज्यारूपकर्णे जाते सप्तधा सिद्धा याऽक्षज्या साऽपि द्विधा

स्थाप्या । एकत्र पलोत्क्रमज्योना त्रिज्या लम्बज्या भवति । अक्षज्यायाः सप्तधा

'सिद्धत्वेनेयमनन्तरोत्तलम्बज्यापि सप्तधा सिद्धा । अन्यत्र सप्तधा सिद्धा ‘अक्षज्यका

कोटिगुणा भुजाप्ता लम्बज्यकेति' सप्तकोटिभिः पृथक् सप्तसु स्थानेषु गुणनीया ।

एवमेकोनपञ्चाशत् प्रकारा जाता अतस्त्रिषष्टिरत्रानयनप्रभेदा इति सुगमम् । केवले

कणें ज्ञाते कोटिज्ञानमुतम्। केवले भुजे च ज्ञाते कोटिज्ञानमुतम्। द्वाभ्यां

भुजकर्णाभ्यां दोःकर्णवर्गान्तरतश्च कोटिरिति सम्यगुक्तम् ॥ २९


इदानों दिङ्नयमेन छायानयन विवक्षुरादौ कोणशङ्कोरानयनमाह

अग्राकृतिं द्विगुणितां त्रिगुणस्य वर्गातू ११८१९८४४
त्यक्त्वा पदं तदिह कोणनरोऽक्षभाध्नः ।
अकों १२ द्धृत: फलयुजासकृदग्रयासी
सौम्ये फलेन वियुजा तु तया प्रसाध्यः* ॥ ३० ।।

१. सिo शि० ग्र० त्रि० २० श्लो० ।  २. सि० शि० ग्र० ग० १९ श्लो० ।

२. अत्र श्रीपति:-

 अग्राकृत्या विहीनं त्रिगुणकृतिदलं वेदशक्रघ्नमाद्यः

 सूर्याग्राक्षप्रमाणामभिहतिरपरो भक्तयोरक्षभायाः ।

 कृत्या व्द्यश्वाढयया तौ परकृतिसहितादाद्यतो यत् पदं स्या

 दन्येनाढयं विहीनं धनदयमककुब्गोलयोः कोणशङ्कुः ।

 उत्तरेतरविदिङ्नरो भवेदुत्तरे तु पदहीनयुक् परः ।

 दक्षिणे न सममण्डलात् तनो भाश्रुतिश्व घटिकाश्व पूर्ववत् ।

( चि० शे० त्रिप्र० ७४-७५ श्लो० ) ।।