वा० भा०--त्रिज्याया वर्गदग्रांवगैण द्विगुणितेनोनाद्यन्मूलं स किल कोणशड्कुः स्थूलो
भवति । स पलभया गुण्यो द्वादश १२ भक्तो यत् फलं तेन युताग्रा कार्या । तयाग्रया पुनः शङ्कुः
साध्यः । तस्मादपि पुनः फलम् । पुनस्तेन युतयाग्रया स साध्यः ! यावदविशेषः । एवं याम्य
गोले । सौभ्ये तु फलस्याग्रायाश्व तदन्तरं तामग्रां प्रकल्प्यासकृत् साध्यः ।
अत्रोपपत्तिः-अत्र कोणवृत्तस्थस्यार्कस्य सममण्डलेन सह यावदन्तरं ज्यारूपं स भुजः ।
तावदेव याम्योत्तरमण्डलेन सहान्तरं भवति । सा कोटि: 1 तद्वर्गयोगपर्द खमध्याकान्तरभागानां
ज्या सा दृग्ज्या । एवं भुजवर्गी द्विगुणो दृग्ज्यावगीं भवति । स दृग्ज्यावर्गस्त्रिज्यावर्गाद्याव
द्विशोध्यते तावच्छङ्कुवर्गोऽवशिष्यते । अतस्तन्मूलं कोणशङ्कुर्भवति । किन्त्वत्र भुजो न ज्ञायते
तज्ज्ञानं वक्ष्यमाणविधिना ।
अथाक्षभाघ्नो नरोऽर्कहृदित्यादिना । अतः शङ्कुः पलभया गुण्यते द्वादशभिह्नियते ।
फलं शङ्कुतलं दक्षिणं स्यात् । स्वाग्रास्वशङ्कुतलयोर्याम्यगोले योगः, सौम्ये
त्वन्तरं भुजो भवति । अत्र कोणशङ्कोरज्ञानाच्छङ्कुतलाज्ञानम् । केवलमग्रा ज्ञायते । सैव
प्रथमं बाहुः कल्पितः । ततोऽग्राकृति द्विगुणितां त्रिगुणस्य वर्गादि यादिना यः शङ्कुरानीतः स
स्थूलो जातः । अतोऽसकृद्विधिना सम्यग्भवति ॥ यथा यत्र देशे यस्मिन् कालेऽग्राध्यर्धराशिज्यातो
२४३१ ऽभ्यधिका भवति तत्र तदा याम्यगोले कोणशङ्कोरभावः । उत्तरगोले कोणशङ्कु
चतुष्टयमुत्पद्यत एकस्मिन् दिने । यत्र देशे सप्तदशाङ्गुला १७ । ५ ।। २२ भ्यधिका विषुवती
तत्रैवं भवति ॥ ३० ।।
अत्र बापूदेवोत्तो विशेष -
अग्राकृतिं द्विगुणितां त्रिगुणस्य वर्गादित्यादि भास्करकृतानयने विशेषः । |
। कोणशङ्कोरानयनच्च--
अग्राऽक्षभयोर्घातो द्वादशनिध्नो भवेत् प्रथमसंज्ञः । |