पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/216

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
त्रिप्रश्नाधिकारः १७१


 वा० भा० - सप्तधापमज्या सप्तधा भुजैर्गुण्या स्वस्वकोट्या भक्ता सप्तधा वा कुज्या

भवति । अथ सप्तधापमज्या सप्तधा कोटिभिर्मुण्या स्वस्वभुजेन भाज्या सप्तधा तद्धृतेरूध्र्व

खण्ड भवति। कुज्योध्र्वखण्डयोयोंगस्तद्धृतिरित्यटनवतिभेंदा भवन्ति' । २३।

इदानीमन्यदाह--

कुज्यापमज्ये भुजकोटिनिध्न्यौ कणोंद्वध्रुते स्यात् क्रमशो यदातम्।
अग्राग्रखण्डं प्रथमं द्वितीयमग्रादिखण्डं च तदैक्यमग्रा ।।२४।।

 वा० भा०-कुज्या ससधा भुजैर्गुण्या स्वस्वकर्णन भाज्या ससधाग्राग्रखण्ड भवति। एवं

क्रान्तिज्या ससधा कोटिभिर्गुण्या स्वस्वकर्णन भाज्या। ससधाग्रा भवति । २४ ।

इदानीमन्यदाह

अग्रादिखण्ड च तथापमज्या भुजाहते ते क्रमशो विभक्ते
कोटिश्रुतिभ्यामुभयत्र शङ्कुरुन्मण्डलस्थे रविमण्डले स्यात् ॥२५॥

 वा० भा० - अग्रादिखण्ड सप्तधा भुजैर्गुण्यं स्वस्वकोटचा भाज्यं सप्तधोन्मण्डल

शङ्कुर्भवति ॥ एवमपमज्या ससधा भुजैर्गुण्या स्वस्वकर्णेन भाज्या ससधोन्मण्डलशङ्कु

भवति ॥ २५ ॥

इदानीमन्यदाह

अग्राग्रखण्डं क्षितिशिञ्जिनी च कोटया हते दोःश्रवणोद्धृते स्तः ।
उद्वृत्तशङ्कू समना तदूनः स्यादूर्ध्वखण्डं समवृत्तशङ्कोः ॥२६॥

 वा० भा०-अग्राग्रखण्ड सप्तधा कोटिभिर्गुण्य स्वस्वभुजेन भाज्यं ससधा वोन्मण्डल

शङ्कुर्भवति । एवं कुज्या ससधा कोटिभिर्गुण्या स्वस्वकर्णन भाज्या । एवं ससधा वोन्मण्डल

शङ्कुर्भवति । तेनोन्मण्डलशङ्कुना रहितः सममण्डलशङ्कुस्तस्योध्र्वं खण्डं स्यात् ॥ २६ ॥

इदानीमन्यदाह

 अग्रा भुजघ्नी श्रुतिहृत् क्षितिज्या तदूनता तद्धृतिरूर्ध्वखण्डम् ।

वा० भा०--अग्रा ससधा भुजैगुंण्या स्वस्वकणेंन भाज्या ससधा कुज्या स्यात् । कुज्यो

निता तद्धृतिस्तदूध्र्वखण्डं स्यात् ॥

इदानीमन्यदाह

ज्ञाताच साध्यादितरे भवन्ति यद्वा गुणच्छेदविपर्यंयेण ॥२७॥

१. अत्र बापूदेवः

क्रान्तिज्यके कर्णगुणे इत्यादिना क्रान्तिज्यातः सप्तधाग्रा सप्तधा च समशशङ्कुर्भवति ।

ताभ्यां दोःकोटिवर्गैक्यपदं श्रुतिः स्यादित्यादिनैकोनपञ्चाशत्प्रकारा तद्धृतिर्भवति । एवं द्विधापमज्या

भुजकोटिनिघ्नीत्यादिना क्रान्तिज्यातः सप्तधा कुज्या सप्तधा च तद्धृत्यूर्ध्वखण्डं भवति ।

तयोर्युतावेकोनपञ्चाशत्प्रकारा तद्धृतिर्भवति ॥ एवं तद्धृतेरष्टनवतिर्भेदा भवन्ति ॥