सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/213

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
सिद्धान्तशिरोमणौ ग्रहगणिते

१६८  शुद्ध भागं प्रयच्छन्ति क्षयगैकादशोद्धृत

 इत्युदाहरणे क्षयगतेऽपि भाजके एवमेते गुणाप्ती । किन्तु भाजकस्य

क्षयगतत्वात् क्षयगता लब्धः कल्प्येति विशेषोऽभिहितः । इदमेव विस्तरेण

कुट्टकप्रतिपादनं नाम ।

 न च पाट्या च बीजेन च कुट्टकेन वर्गप्रकृत्या च तथोत्तराणि ॥ 'गोलेन

यन्त्रैः कथितानि तेषां बालावबोधे कतिचिच्च वच्मि' इत्यनेन व्यक्तगणितोत्त-

कुट्टकस्य यन्त्राध्यायोक्तप्रश्नोत्तरार्थज्ञानं फलमव्यक्तगणितोत्तकुट्टकस्य बीजोपयुक्त

क्रियान्तर्गतत्वेनानेकवणोपयोगः फलमिति, प्रयोजनभेदान्न पौनरुक्तद्यमिति वाच्यम् ।

सकृदुतादपि पाटीगणिताद्गोलगणिताद् बीजगणिताद् यन्त्राध्यायाच्चानेकप्रयोजन

सम्भवदर्शनात् । ग्रहगणितशास्त्रस्य यज्ञकालार्थसिद्धिरिति सूत्रकारेण फलमुक्तम् ।

आचायेंण- -

 ज्योतिशास्त्रफलं पुराणगणकैरादेश इत्युच्यते ।

 नूनं लग्नबलाश्रितः पुनरयं तत् स्पष्टखेटाश्रयम् ‘इत्यपि ग्रहगणितस्य

फलमुक्तं नैतावता ग्रहगणिताद्द्ववारं वक्तव्यम् । ते गोलाश्रयिण इति वासनां

प्रतिपादकत्वेन गोलस्य ग्रहगणितोपयोग प्रतिपादितः । 'अन्तरेण गणितं गोलोऽपि

न ज्ञायत' इत्यनेन व्यक्ताव्यक्तगणितयोर्ग्रहगणितवासनाज्ञानसाधनीभूतप्रश्नोत्तरप्रति

पादनेन गोलोपयोगः प्रतिपादितः । श्रीधराद्यैः पाटीगणितस्य लोकव्यवहार

फलमुक्तम् । स्मृतावुक्तस्य लोकव्यवहारनिर्णयस्य त्रैराशिकोपयुक्तत्वात् । व्यवहारस्य

प्राधान्येनाष्टादशपदानि मनुनोक्तानि तेषु पाटीगणितोपयोगः साक्षात् परम्परया

स्त्येव । क्षेत्रव्यवहारस्य कुण्डादिसाधनोपयोगः प्रत्यक्षमनुमानं च शास्त्रं च विविधा

गमम् । ‘त्रयं सुविदितं कायं धम्र्मशुद्धिमभीप्सितेति' वदता मनुना राज्ञो धर्माधि

कृतानां व्यवहारावलोककानां च गणितज्ञानमावश्यकमेवेत्युत भवति ।

 किञ्च पूर्वं प्रोक्तं व्यक्तमिति बीजगणितेऽपि व्यक्तगणितोपयोगः नैतावता

व्यक्तगणितमसकृद्वक्तव्यम् ।

 तथा लोके शाल्यर्थ कूल्याः प्रणीयन्ते, ताभ्यः पानीयं पीयते, अप उपस्पृश्यते

च । तस्मात् कुट्टकपौनरुत्तयं समासव्यासप्रतिपादनपरमेव । अत्राक्षक्षेत्रेषु क्रान्ति

ज्यां भुजं प्रकल्प्य यः कर्णः समायाति स एव समशङ्करित्युच्यते । वास्तवसम

मण्डलगेऽकें कदाचिदन्वर्थतां लभते । एवमुन्मण्डशङ्करपि क्रॉन्तिज्याकणें कोटिरिति ।

अस्योन्मण्डलस्थेऽर्के शङ्कं भवितुं योग्यताऽस्तीति शब्दप्रयोगः ।

 उत्तरगोले स्वात्पॅलात्स्वल्पेऽपमे*

 अग्रा भुजः स्वे समना च कोटिस्त्रि*बाहुके तद्धृतिरेव कर्णः ।

 भुजोऽपमज्या समना च कर्णः कुज्योनिता तद्धृतिरत्र कोटिः ॥

 खण्डं यदूध्र्व समवृत्तशड्रोयंतद्धतेस्तावथ कोटिकर्णी ।


१. सि० शि० गो० गो० ६ श्लोo । २. सि० शि० गो० त्रि० ४७ ॥ ३. झुरात्रके, इति प्रकाशितमूले पाठ: । सि० शि० गो० त्रि० ४७-४८ श्लो० ।