पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/212

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६७
त्रिप्रशनाधिकारः

गोले सा विमलाकरामलकवत्प्रत्क्षतो दृश्यते
तस्मादस्म्युपपत्तिबोधविधये गोलप्रबन्धोद्यतः ॥
इति गोलाध्यायारम्भे वासनाज्ञानं गोलग्रन्थप्रयोजनमुक्तम् ।
'इषदीषदिह मध्यगमादौ ग्रन्थगौरवभयेन मयोक्तम् ।
वासना मतिमता सकलोह्या गोलबोध इदमेव फलं हि ॥

 इति गोलोपसंहारे फलमुक्तम् । गोलग्रन्थान्तर्गतानामक्षक्षेत्राणा वासनावगतिरेव प्रयोजनमुचितं, संदंशपतितन्यायतुल्यत्वात् । अक्षक्षेत्रसंस्थानकथनान्ते च गोलान्तस्त्रिप्रश्नेऽभिहितम्--

 *कोटिर्नरः शङ्कतलञ्च बाहुः छेदः श्रुतिस्त्र्यस्रसहस्रमेवम् ।

 उत्पाद्य सद्यः खलु गोलविह्निः छात्राय शास्त्र प्रतिपादनीयम्, इति ।

 अत्र ग्रहगणितान्तर्गत त्रिप्रश्ने कुज्याक्रान्तिज्याग्रोन्मण्डलशङ्क्वग्राग्रखण्डपलभापलज्याग्रादिखण्डसमशडूशडूतलादीनां मध्ये चैकक्षेत्रस्थभुजकोटिकणेंपु ज्ञातेषु क्षेत्रान्तरभुजे कौटौ कणें वाज्ञाते क्षेत्रान्तरभुजकोटिकर्णानां संख्यावगमः प्रयोजनमेषामक्षक्षेत्राणाम्। प्रयोजनभेदान्न पौनरुक्त्यं दोषावहमित्युपयोगित्वात्कथ्यन्त इत्यनेन सम्यगुक्तम् । अक्षक्षेत्रप्रतिपादनं समशङ्क कुज्यादिसाधनप्रतिपादनलाघवाय संक्षेपविस्तृतिप्रतिपादनपरं पौनरुक्त्यं प्रयोजनैक्येऽपि न दुष्यति' गोलान्तर्गतप्रश्नाध्यायानन्तरोत्तज्योत्पत्तिकथनवत् । व्यक्ताव्यक्तगणितप्रतिपादितकुदृकपौनरुक्त्यमपि संक्षेपविस्तृतिप्रतिपादनपरमेव ।

 यद्गुणा गणकषष्टिरन्विता वजिता च दशभिः षडुत्तरै इति प्रश्नोत्तरार्थं *क्षेपजे तत्क्षणाच्छुद्धे 'गुणाप्तीस्तो विशुद्धिजः

 इति व्यक्तगणितेऽभिहितम् । ततः कियत्यपि काले गते `°यद्गुणाक्षयगषष्टिर न्विता वजिता च यदि वा त्रिभिस्तत इति प्रश्नोत्तरार्थ कश्चन विशेषो मया नोक्त इत्युपस्थितौ यथास्थान एव विशेषो वक्तव्य इति बीजगणिते पुनः कुट्टकः प्रतिपादितः । अव्यक्तगणितकुट्टके *योगजे तत्क्षणाच्छुद्ध गुणातीस्तो वियोगज इत्युक्तम् ।

 *धनभाज्योद्भवे तद्वद्भवेतामृणभाज्यजः

 इति मन्दावबोधार्थ योगजे तत्क्षणादित्यस्य व्याख्यानं कृतम् । तथा च—

 °अष्टादशहताः केन दशाढया वा दशोनिताः ।


१. सि० शि० गो० शुङ्गो० ६ श्लो० ।  २. सि० शि० गो० त्रि० ४९ श्लो० ।

३. ली० कु० ७ श्लोकस्योदाहरणम् ।  ४. ली० कु० ७ श्लो० ।

५. प्तास्तो इति ग पु० तथा णाप्तीस्ततो कपु० च ।  ६. ६ियोगजे मु० पु० ।

७. बी० ग० कु० २४ श्लो० ।  ८. बी० ग० कु० ३२ श्लो० ।

&. fo To २४ श्लो० ।  १०. बी० ग० २५ शलो० ।।