पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/202

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
૨૭
त्रिप्रश्नाधिकारः

इति नियतव्यञ्जकत्वमकर्कोदयस्योपलब्धमिति ‘यत्रोदितोऽर्कः किल तत्र पूर्वेत्युक्तम्' ।'भाग्रं यत्र विशत्यपैति चेत्यनेन' सममण्डलसूत्रमेव सिद्धयतीति सम्यगेव प्राक्निरूपितम् ।

 अत एव सौरेऽपि-‘प्राक्पश्चिमाश्रिता रेखा प्रोच्यते सममण्डलम्।"इत्युक्तम् ।मेरौ गोलस्थोन्मण्डलमेव सममण्डलं, निरक्षदेशे तु विषुवन्मण्डलमेव सममण्डलम् ।'उन्मण्डलञ्च विषुवन्मण्डलं परिकीत्यंते" इत्युक्त सौरे ।अत्र मेरुनिरक्षदेशयोरध्याहारेणायमर्थो लभ्यते ।यद्वा निरक्षदेशादूर्ध्वं मण्डलं यद्विषुवन्मण्डलं तत्परिकीत्र्यते।पूर्वापररेखाभाग्रयोरन्तरं भुज, स त्वग्राशङ्कतलसंस्कारेण भवति।अयं भुजस्तु वृत्ते प्रत्यक्षतो ज्ञायत एव ।तत्र लघुक्षेत्रे कुत्रांग्रा कुत्र सौम्यपलभेति वैशद्यार्थमुच्यते ।

 3'रेखाप्राच्यपरा साध्या विषुवद्भाग्रगा तथा'

 इत्यनेन प्राच्यपरसूत्रविषुवत्सूत्रयोरन्तरालं सर्वत्र पलभैवेत्युक्तं भवति ।भाग्रविषुवत्सूत्रयोरन्तरे त्वग्रेति ‘*इष्टच्छायाविषुवतोर्मध्यमग्राऽभिधीयते’ इत्यनेनोक्तम् ।यद्वा यथा प्राक् पश्चिमाश्रिता रेखा सममण्डलमिति प्रोच्यते ।तथा चोन्मण्डलमपि प्रसिद्धमित्यर्थः ।

 विषुवन्मण्डलमधुनोच्यते ।'वृत्तेम्भः सुसमीकृतक्षितिगते' इत्यनेन प्रागपरसूत्रसाधनं शोभनमुक्तम् ।

 तन्मत्स्यादिति याम्योत्तरसूत्रसाधनम्|प्रागपरसूत्रमितकर्कटकेन प्राक्चिह्मात्पश्चिमचिह्माद्दक्षिणोत्तरायने वृत्ताढें कायें ।वृत्ताद्धद्वयसभ्पातयो: सूत्रं याम्योत्तरसूत्रं स्यात् ।अत उत्तम् ‘तन्मत्स्यादथ याम्यसौम्यकुकुभाविति' ।यष्टयग्र मूलसंस्थ (दृ ?) विष्टया "ध्रुवमग्रमूलयोलम्बी बाहुलम्बान्तरभूरित्यनेन यो १बाहुः स एव सौम्यसूत्रमिति 'सौम्या ध्रुवे वा भवेत् अनेन स्पष्टमुक्तम्।'भाग्रं यत्र विशत्यपैति च' इत्ययेन प्रवेशनिर्गमकालीनभाग्रद्वयाभ्यां प्रागपरसूत्रसाधनं प्रागभिहितम् ।

 अधुना त्वेकस्मादपि भाग्राद्युगपत्प्रागपरसूत्रयाम्योत्तरसूत्रसाधनमुच्यते ।एक स्मादपीति ।भाग्रत इत्यत्र ल्यब्लोपे पश्चमी।एक °भाग्रमारभ्येत्यर्थ:॥'*त्रिभज्या हृतार्काग्रकाकर्णनिघ्नीति वक्ष्यते भुजसाधनम् ।‘दोः प्रभावर्गवियोगमूलं कोटिमिति’ वक्ष्यते च ।भुजमितां कोटिमितां शलाकां सम्पाद्य दिक्साधनं सम्यगुक्तम् ॥ ८-९ ।।


१. सू० सि० ३ अ० ६ श्लो० | २. सू० सि० ३ अ० ६ श्लो० ।

३. सू० सि० ३ अ० ७ श्लो० । ४. सू० सि० ३ अ० ७ श्लो० ।

५. विध्या इति ग पु० । ६. वाजः इति ग पु० ।

७. मारभ्यंतर्थः, इति ग पु० । ८. सि० शि० ग ऽ त्रि० ७२ श्लोo ।