पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/201

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५६
सिद्धान्तशिरोमणौ ग्रहगणिते

 भाषिकः। यमकोटद्यां पूर्वा दिक् रोमके पश्चिमा, सिद्धपुरे सौम्या, लङ्कायां दक्षिणा ।

समन्तान्मेरुमध्यात्तु तुल्यभागेषु तोयघेः |
द्वीपेषु दिक्षु पूर्वाद्या नगर्यो देवनिमिताः ॥
भूवृत्तपादे पूर्वस्यां यमकोटीति विश्रुता ।
याम्यायां भारते वर्षे लङ्गा तद्वन्महापुरी ॥

इति सूर्यसिद्धान्तोक्तेः' । सिद्धान्तसुन्दरे

मन्दराचलसुगन्धपर्वतौ पूर्वदक्षिणविभागयोः स्थितौ ।
यौ सुपाश्र्वविपुलाचलौ तु तावुत्तरापरगतौ सुरालयातू ॥

इत्युक्तम् ।  यदपि लङ्कापुरोपरि गतः खचरः सुमेरोर्याम्ये कुज इत्युक्तं तदपि युक्तम् । अत्र लङ्कायाम्यं क्षितिजभिति यदुच्यते तल्लङ्कासूर्योदये सृष्टद्यादिरिति मतानुसारेणोच्यते।वास्तवन्तु प्राचीशब्दस्यान्वर्थत्वेन लङ्कार्द्धरात्रे सृष्टद्यारम्भस्याङ्गीकरणेन सिद्धपुर्या मेरोः प्राचीति केचिदाहुः ।अयुक्तमिदं वस्तुनि चातुविध्यासंभवात् ।यंन्मते लङ्कोदये सृष्टिस्तन्मते मेरोर्लङ्का दक्षिणा दिक् । यन्मते लङ्कादिनाद्धे सृष्टिस्तन्मते लङ्कव प्राची । यन्मते लङ्कास्तमनकाले तदा लङ्कोत्तरा दिक् । यन्मते लङ्कार्द्धरात्रे तदा लङ्का पश्चिमा ।  मेरोर्लङ्का कस्यां दिशीति विचारे चतुर्दिक्षु मतचतुष्टयेन भवेदिति । मेरावपि परत्वापरत्वादिना पूर्वादिग्भेदोऽवश्यं मन्तव्य एव । स च सर्वदा नियत एवेति यत्किञ्चिदेतत् ।  किञ्च लङ्कार्द्धरात्रे सृष्टव्यङ्गीकरणात् सिद्धपुरे मेरोः प्राचीति वदतामायुष्मतां सिद्धपुरे प्रागश्चतीत्यनेन खमध्यस्था प्राचीति सम्मतं स्यात् । अस्मिन्मते तु सूर्योदयादस्तमनकालावधि यावन्तःसृष्टिकालास्तदवच्छिन्नानि यावन्ति सूर्यदर्शनानि तेषां मध्ये प्रथमसृष्टिकालावच्छिन्नं सूर्यदर्शनं यत्तद्यत्र भवति सा प्राचीति । चरमदर्शनं यत्र सा प्रतीची । अयमेवार्थ: प्राचीप्रतीचीशब्दयोः ।  यद्यपि सिद्धपुरस्थैः प्रथमं स्वस्वमध्य एव वाकों दृष्टस्तथापि दिनारम्भकालीनप्रथमसृष्ट्यवच्छिन्नं सूर्यदर्शनं खमध्येन जातमिति खमध्यप्रदेशस्य न प्राची दिक्त्वम् ।वस्तुतस्तु, अयमस्मात्परोऽयमस्मात् पूर्वं इत्यनादिसिद्धवृद्धव्यवहारगम्यः प्राच्यादिव्यवहारः ।न च सूर्यं एव प्राच्यादिव्यवहारव्यञ्जक इति वाच्यं, ध्रुवादीनां दिग्व्यवहारव्यञ्जकानामपि सद्भावात् ।  येषु च भूसम्पुटस्वरूपेषु पातालेष्वनवरतं सूर्यध्रुवादयो न दृश्यन्ते तेष्वपि प्राच्यादिव्यवहारस्य सद्भावात् । मनुष्यदेशे तु यत्रैव प्राग्व्यवहारस्तत्रैवाकॉदय