पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/175

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३०
सिद्धान्तशिरोमणौ ग्रहगणिते

पलप्रभा तोयपलात्मकानि स्थूलानि वा स्युश्रखण्डकानि ।
स्थूलं चरं चाम्बुपलात्मकं तैस्तत्प्राणचापं यदि वापि सूक्ष्मम् ॥५१।।

 वा० भा०- अथवा तच्चरं वक्ष्यमाणेस्त्रिभिः खण्डकै: स्वदेशजैलघुज्याप्रकारेणांशमितेर्दशासमित्यादिना साध्यम् ॥ कस्मादित्याह-- रविदोस्त्रिभागात् ॥ अकस्य सायनांशस्य यो भुजस्तस्य यस्त्र्यंशस्तस्मादंशमितेर्दशासमित्यादिना ॥ अथ खण्डकानि । मेषादिराशित्रितयस्येत्यादि सुगमम् ॥ अथ स्थूलखण्डकैर्यच्चरं तत् स्थूलं पानीयपलात्मकं भवति । तत् षड्गुणं प्राणात्मकम् । तस्माद्यदि धनुः क्रियते तदा सूक्ष्मं चरार्धं स्यात् ॥  अत्रोपपतिः-एकमड्गुलं पलभां प्रकल्प्ष्य एकद्वित्रिराशीनां पृथक् चराण्यानीय तानि षड्भविभज्य पानीयपलात्मकानि कृत्वा यावदधोऽधी विशोध्यन्ते तावद्दङ्नागसत्र्यंशगुणा उत्पद्यन्ते । अतोऽनुपातः । यद्य काङ्गुलया पलभयैतानि चरखण्डानि तदेष्टया किमिति । एवं चरखण्डानि स्युः । परं तानि ज्यात्मकानि । यतः पूर्वं स्वल्पत्वात् धनुर्नोत्पन्नम् । अत एव तत्प्राणचापं यदि वापि सूक्ष्ममित्युक्तम् । खण्डकैश्चरकरणे लघुज्यासाधनवद्वासना ॥ तत्र लघुज्याखण्डकानि नव, चरखण्डकानि त्रीणि, परमे राशित्रये भुजे यथा त्रीणि लक्ष्यन्ते तदर्थ रविदोस्त्रिभागादित्युक्तम् ।४८६-५१॥ इदानी दिनरात्रिमानमाह—

चरघटीसहिता रहिताः क्रमातिथिमिता घटिकाः खलु गोलयोः ।
भवति तद् द्युदलं निजसावनं खगुणतः पतितं रजनीदलम् ॥५२॥

 वा० भा०-पञ्चदश नाडन्य उत्तरगोले चरघटीभिः सहिता दक्षिणे रहिताः । एवं कृते निजसावनं द्युदलप्रमाणं भवति । यस्य ग्रहस्य चरं तस्येत्यर्थः । दिनदलं त्रिशतो विशुद्ध' रात्रिवलं भवति ।  अत्र वासना । उन्मण्डलयाम्योत्तरवलययोर्मध्ये पञ्चदश घटिकाः । उन्मण्डलादधः क्षितिजमुत्तरगोले चरार्धकालेनातस्तदधिकाः पन्चदश घटिकाः । याम्यगोले तु तदूध्र्वमतश्चरोनास्तत्र पञ्चदश ।। ५२ ।।

इदानीं ग्रहाणां चरकर्माह

चरध्नभुक्तिर्बुनिशासु भक्ता तयोनयुक्तः खचरो विधेयः ।
क्रमादुदग्दक्षिणगोलगेऽकें सूर्योदये व्यस्तमतोऽस्तकाले' ॥५३॥

 वा० भा० - ग्रहस्य भुक्तिश्वरासुभिर्गुण्याहोरात्रासुभिः २१६५९ भाज्या । फलकलाभिरुत्तरगोले ग्रहो रहितो, दक्षिणगोले सहितः । एवमौदयिको ग्रहः । यद्यस्तकालिकस्तदातो व्यस्तम्। उत्तरगोले सहितो दक्षिणगोले रहित इत्यर्थः ।


१. अत्र श्रीपतिः--

ग्रहगतिचरखण्डप्राणपिण्डाभिघातादहरसुभिरवाप्तं ताश्च लिप्ता ग्रहेषु ।
धनमृणमुदये स्युर्याम्यसौम्येऽर्कगोले न दिनरजनिमध्ये व्यस्तमस्ते विधेयम् ।

 (सि० शे० स्प० ६९ श्लो०)