पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/174

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२९
स्पष्टाधिकारः

 वा० भा०-अयनांशानां कला रविभुक्त्या हृताः फलमयनलवोत्थदिनानि । तैदिनैर्मेषसंक्रान्तेस्तुलासंक्रान्तेश्च प्राग्विषुवद्दिनं भवति । एवं मकरकर्कटसंक्रमतः प्रागयनदिनम् । तस्मिन् विषुवद्दिने मध्याही या छाया सा पलभा ॥

 अस्य क्षेत्रस्य वासना गोले । ४६ ॥

 इदानी पञ्चज्यासाधनमाह

युक्तायनांशादपमः प्रसाध्यः
कालौ च खेटात् खलु भुक्तभोग्यौ ।
जिनांशमौव्र्या १३९७ गुणिताकदोज्य
त्रिज्यो ३४३८ द्रृता क्रान्तिगुणोऽस्य वर्गम् ।। ४७ ।।

त्रिज्याकृते: ११८१९८४४ ओह्य पदं युजीवा
क्रान्तिर्भवेत् क्रान्तिगुणस्य चापम्।
अक्षप्रभासंगुणितापमज्या
तद्द्वादशांशो भवति क्षितिज्या ।। ४८ ।।

 सा त्रिज्यकाघ्नी विहता घुमौव्या चरज्यकास्याश्च धनुश्वरं स्यात् ।

 वा० भा०—अत्र खेटादित्युपलक्षणम् । यस्मात् खेटाल्लग्नाद्वापमः साध्यस्तस्मात् सायनाशादेव । तथा यस्मादुदयसम्बन्धिनौ भुक्तभोग्यकालौ साध्यौ तस्मादपि सायनशादेव । सायनार्कस्य दोज्र्या दिनभागज्यया गुणिता त्रिज्यया भक्ता क्रान्तिज्या स्यादित्यादि स्पष्टार्थम् ।

 अस्योपपत्तिः-विषुवत्क्रान्तिवृत्तयोर्याम्योत्तरमन्तरं क्रान्तिः । तयोः संपाते क्रान्त्यभावः । ततस्त्रिभेऽन्तरे परमा जिनतुल्यभागाः । अतस्तत्संपातादारभ्य क्रान्तिः साध्या । उदयाश्च तत एव । स तु संपातो मेषादेः प्रागयनांशतुल्येऽन्तरे ॥ अतः सायनांशात् खेटात् क्रान्तिर्भुक्तभोग्यकाली चेल्युक्तम् । यदि त्रिज्यातुल्यया भुजज्यया जिनांशज्यातुल्या क्रान्तिज्या लभ्यते तदेष्टज्यया किमिति । फलं क्रान्तिज्या विषुवद्वृत्तात् तिर्यग्रूपा भवति । क्रान्तिज्या भुजस्त्रिज्या कर्णस्तद्वर्गान्तरपदमहोरात्रवृत्तव्यासार्धम् । सैव द्युज्या ।

 अथ कुज्योच्यते-यदि द्वादशकोटेः पलभा भुजस्तदा क्रान्तिज्याकोटेः किमिति । फलं क्षितिजोन्मण्डलयोर्मध्येऽहोरात्रवृत्ते ज्यारूपं स्यात् सैव कुज्या । सा धनुःकरणार्थ त्रिज्यावृत्ते परिणाम्यते । यदि द्युज्याव्यासार्ध एतावती तदा त्रिज्याव्यासार्थे किमिति फलं चरज्या ।तद्धनुश्व

 अथ प्रकारान्तरेण चरानयनमाह

स्वदेशजस्तच्चरखण्डकैर्वा लघुज्यकावद्रविदोस्त्रिभागान् ॥४९॥
शांत्रेतयस्य यानि चराण्यधोऽधः परिशोधितानि ।
तानि स्वदेशे चरखण्डकानि दिङ्नागसत्र्यंशगुणैः १०॥८॥॰३. विनिघ्नी ॥९०।

सि०-१७