पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/176

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३१
स्पष्टाधिकारः

पपत्तिः-- ये लड्रोदयकालिकास्ते स्वोदयकालिकाः क्रियन्ते। अत्र तदुदययोर्मध्ये चरकालः । ततोऽनुपातः यद्यहोरात्रासुभिः २१६५९ गतिकला लभ्यन्ते तदा चरासुभिः किमिति । फलकलाभिरूनो ग्रह उत्तरगोलस्थेऽर्केऽतः क्रियते यतस्तत्र लङ्कोदयात् प्राक् स्वोदयः । यल्लङ्कायां क्षितिजं तदन्यदेश उन्मण्डलम् । अत उन्मण्डलादधःस्थे क्षितिजे ऋणम् ॥ दक्षिणगोले तूपरिस्थिते धनम् । अस्तकाले त्वस्माद्विपरीतम् । यतस्तत्रोन्मण्डलं प्राप्य पश्चात् क्षितिजं प्राप्नोति रविरुत्तरगोले दक्षिणगोले त्वादावेव । एवं सर्वमुपपन्नमित्यादि वासना गोले सम्यगभिहिता । इह संक्षिसीत्त ॥५३॥

अथ लड्रोदयसाधनमाह- -

एकस्य राशेर्चुहती ज्यका या द्वयोखिभस्यापि कृतीकृतानाम् ।
स्वस्वापमज्याकृतिवर्जितानां मूलानि तासां त्रिगुणा ३४३८ हतानि ॥५४॥
स्वस्वद्युमौव्यं विभजेत् फलानां चापान्यधोऽधः परिशोधितानि ।
क्रमोत्क्रमस्थानि निरक्षदेशे मेषादिकानामुदयासवः स्युः ॥५५॥

 वा० भा०-एकस्य राशेबृहती ज्येत्यष्टमी ज्या । द्वयोरिति षोडशी ज्या । त्रिभस्येति त्रिज्या । आसां वर्गितानां स्वकीयस्वकीयक्रान्तिज्यावर्गवजितानां मूलानि त्रिज्यागुणितानि स्वस्वद्युज्यया विभजेत् । फलानां चापान्यधोऽध: परिशोधितानीति तृतीयात् द्वितीय, द्वितीयात् प्रथम शोध्यम् । प्रथभं तथाविधमेव ॥ एवं लङ्कोदयासवः स्युः ।

 अत्रोपपत्तिः-अत्रोद्गच्छतः क्रान्तिवृत्तस्य तिर्यक्स्थतत्वात्त्र्यस्त्राणि क्षेत्राण्युत्पद्यन्ते । तद्यथा—मेषान्तस्य ज्या क्रान्तिवृत्ते कर्णः । तत्क्रान्तिज्या लङ्काक्षितिजे भुजः ॥ तद्वर्गान्तरपदं मेषान्तेऽहोरात्रवृत्ते कोटिः । एवं राशिद्वयस्य ज्या कर्णः ॥ तत्क्रान्तिज्या भुजः ॥ तद्वर्गान्तरपदं वृषभान्तेऽहोरात्रवृत्ते कोटिः ॥ एवं त्रिराशिज्या कर्णः । परमा क्रान्तिज्या भुजः ॥ परमाल्पद्युज्या कोटिः । एताः कोटयश्चापकरणार्थं त्रिज्यावृत्ते परिणामिताः । त्रिज्यागुणाः स्वस्वद्युज्यया भक्तास्तासां चापानि। प्रथमं मेषोदयस्य कालः। द्वितीय राशिद्वयस्य । तृतीयं राशित्रयस्य। अतो विश्लेषितानीत्युपपन्नम् ॥५४-५५॥

इदानों प्रकारान्तरेणाह- -

कीटादिराश्यन्तजकोटिजीवास्त्रिज्या ३४३८ गुणाः स्वस्वदिनज्ययाप्ताः ।
चापीकृताः प्राग्वदधो विशुद्धाः कीटादिकानामुदयासवो वा ॥५६॥

 वा० भा० - कीटादिराश्यन्तजकोटिजीवास्ता एकद्वित्रिराशिज्या भवन्ति १७१९ २९ ७ ॥३४३८॥ एतास्त्रिज्यया गुण्याः स्वस्वदिनज्यया भक्ता इति । यैव वृषभान्ते द्युज्या सैव कीटान्तेऽपि ३२१८ । यैव मेषान्ते द्युज्या सैव सिहान्तेऽपि ३३६६ । कन्यान्ते द्युज्या त्रिज्यैव ३४३८ ।। अभिस्ता भाज्याः फलानां चापान्यधोऽधः शुद्धानि कीटादीनामुदयासवः स्युनिरक्षे वा । त एव मिथुनवृषभमेषाणामित्यर्थः ।