पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/173

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२८
सिद्धान्तशिरोमणौ ग्रहगणिते

अवक्रनक्रास्तमयोदयोक्तभागाधिकोनाः कलिका विभक्ताः ।
द्राकेन्द्रभुक्त्याप्तदिनैर्गतैष्यैरवक्रवक्रास्तमयोदयाः स्युः ।।४४।।

 वा० भा०-स्पष्टार्थमिदम् ।

 अत्रोपपत्तिः । उदयास्तमयाध्याये ये कालांश: पठिताः स्फुटार्कात् स्फुटग्रहे तेरन्तरित उदयोऽस्तमयो वा’ भवति । इह तु मध्यमाकत् िस्थूलस्फुटे ग्रहे तावद्भिः क्षेत्रांशैरन्तरिते य उदयोऽप्तमयो वा स्थूल: स कथ्यते । इह यच्छीघ्रकेन्द्र तन्मन्दस्फुटस्य मध्यप्रवेश्चान्तरम्। यथा क्षितिजस्याष्ट्दस्राः २८ । एभिः केन्द्रभागैर्यावड्रौमस्य फलमानीयते तावदेकादश भागाः ११ भवन्ति । तैरधिको मन्दस्फुटो यावदर्काच्छोध्यते तावत् सप्तदशभागान्तरितो भवति । ससदश हि तस्य कालांशाः अतस्तावति केन्द्र उदयः । एभिः केन्द्रभागैश्चक्राच्च्युतः पश्चिमदिशि तावदेव भौमार्कयोरन्तरं स्यात् । अतस्तत्रा तमयः । एवं यदा गुरोश्चतुर्दश भागाः १४ केन्द्रम् । तस्मात् केन्द्राद्धागत्रयं फलम् । तदधिकस्य गुरोरकस्य चान्तरमेकादश भाग : । एवं मन्दस्यापि स्फुटस्यार्केण सहान्तरं पश्चदश कालांशाः १५ । एवमनयोभौमवच्चक्राच्छुद्धरस्तमयः ॥ बुधशुक्रयोस्तु खाक्षे-५० जिनै: २४ केन्द्रांशैर्विवरुद्रमिताः कालांशा उत्पद्यन्ते। तैभगैरधिकौ तौ तैरेव भागैरवेरग्रतः स्याताम् । यतो य एव मध्यो रविस्तावेव ज्ञशुक्रौ ॥ अतः कालांशान्तरितयोरुदयः । ' एवं तयोर्ये उदयास्तभागाः पठितास्तैस्तैः कालांशैस्तुल्यमेव फलं भवति । अवक्रवक्रोदयास्तभागेभ्य ऊनाधिकाः कला द्राक्केन्द्रभुक्त्या हृता गर्तष्यदिनानि भवन्तीति त्रैराशिकेनोपपन्नम् ॥ ४२-४४ ॥  इदानी स्फुटग्रहान्मध्यग्रहानयनमाह

स्फुटग्रहं मध्यखगं प्रकल्प्य कृत्वा फले मन्दचले यथोक्ते ।
ताभ्यां मुहुव्र्यास्तधनर्णकाभ्यां सुसंस्कृतो मध्यखगो भवेत् सः' ॥४९॥

वा० भा० - स्पष्टार्थमिदम् ।
अत्र विलोमविधिरेव वासना ।। ४५ ॥

इदानी पलभाज्ञानमाह
क्रियतुलाधरसंक्रमपूर्वतोऽयनलवोत्थदिनैर्विषुवद्दिनम् ।


१. अत्र बापूदेवः--

व्यत्यासतः ककिंमृगादि केन्द्रे स्फुर्ट खराशु' परिकल्प्य साध्या ।
मन्दश्रुतिर्द्राक्फलवत्ततो यत् फलं रवेर्मन्दफलं भवेत्तत् ॥
यद्वा बृहत्याः स्फुटभानुकेन्द्रकोटिज्यकायास्त्रिभजीवयाप्तम् ।
यद्यच्च रव्यन्त्यफलज्ययासं त्रिभज्यकाया अनयोविंयुत्या ॥
मृगादिकेन्द्र किल कर्कटादौ केन्द्र च युत्या मृदुकेन्द्रदोज्या ।
विभाजिता मन्दफल कलाद्य स्फुटाकतो लाघवत: सकृत् स्यात्।